ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १६९-१८८ जीवब्रह्मणोरभेदनिरूपणम्
- १७२-१८५ स्वरूपभेदाज्जीवब्रह्मणोरैक्यासङ्गतिरिति शङ्कायाः समाधानम्
- १७७-१८५ चैतन्यस्य चातुर्विध्यवर्णनम्


आवर्तः १७८ – कूटस्थवर्णनम्

*२ बुद्धेर्व्यष्ट्यज्ञानस्य वा अधिष्ठानभूतचैतन्यस्य कूटस्थः इत्यभिधा। यन्मते बुद्धिविशिष्टश्चेतनो जीवस्तन्मते बुद्ध्यधिष्ठानचेतनः कूटस्थ इत्युच्यते। यत्र तु मते व्यष्ट्यज्ञानविशिष्टचेतनो जीव इति कीर्त्यते तन्मते व्यष्ट्यज्ञानाधिष्ठानचेतनः कूटस्थ इति वर्ण्यते। अत्रायं सिद्धान्तः जीवत्वापादकं विशेषणं यत् तदधिष्ठानस्य कूटस्थ इति नाम। अयं कूटस्थ उत्पत्त्यादिरहितः। अस्यायमभिप्रायः ब्रह्मणो व्यतिरिक्ततया चिदाभासो यथोत्पद्यते, न तथा कूटस्थ उत्पद्यते; किन्तु ब्रह्मरूप एव स भवति। यथा घटाकाशो महाकाशान्न व्यतिरिक्तः, किन्तु माहाकाशरूप एव भवति, तद्वत्। अयं च कूटस्थ आत्मपदलक्ष्यार्थः। कूटस्थस्यैव प्रत्यगिति निजस्वरूपमिति, जीवसाक्षीति च व्यपदेशः। कूटस्थो घटाकाशस्थानीयः।

*२. जीवो बुद्धिप्रतिबिम्ब इति, अविद्याप्रतिबिम्ब इति च वक्ष्यमाणत्वादत्र पक्षद्वयं सूचितम्।