ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १६९-१८८ जीवब्रह्मणोरभेदनिरूपणम्
- १७२-१८५ स्वरूपभेदाज्जीवब्रह्मणोरैक्यासङ्गतिरिति शङ्कायाः समाधानम्

- १७२-१८५ चैतन्यस्य चातुर्विध्यवर्णनम्

आवर्तः १७७ – उपोद्घातः

हे सोम्य। चतुर्विधाकाशलक्षणमुक्तम्। *१ चतुर्विधचैतन्यलक्षणमप्युच्यमानं शृणु। तस्य श्रवणमात्रेण विचारस्य महाफलं ब्रह्मज्ञानमवाप्येत।

*१. केषुचिदद्वैतग्रन्थेषु जीव ईशो ब्रह्मेति चित्त्रैविध्यप्रक्रियाश्रिता। अनादिपदार्थषट्कनिरूपणे चैतन्यत्रैविध्यमेवोक्तम्। तत्र कूटस्थपरित्यागान्न कोऽपि दोषः स्यात्। कूटस्थब्रह्मणोर्न नाममात्रभेदादृतेऽन्यः कश्चन भेदोऽस्ति। किञ्च विद्यारण्यमुनिकृतदृग्दृश्यविवेकाख्यग्रन्थे कूटस्थः पारमार्थिकजीवः, जाग्रत्कालिकान्तःकरणप्रतिबिम्बो व्यावहारिकजीवः, स्वप्नदृक् प्रातिभासिकजीव इति च निरूपतिम्। अनेन कूटस्थ जीवकोटावन्तर्भावितः।