ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १६९-१८८ जीवब्रह्मणोरभेदनिरूपणम्
- १७२-१८५ स्वरूपभेदाज्जीवब्रह्मणोरैक्यासङ्गतिरिति शङ्कायाः समाधानम्
- १७७-१८५ चैतन्यस्य चातुर्विध्यवर्णनम्

- १७७-१८५ जीवस्वरूपवर्णनम्
- १७७-१८५ बुद्धिप्रतिबिम्बितचैतन्यं जीवः

आवर्तः १७९ – जीवस्वरूपम्

अनन्तकोटिकामकर्मवासनावासितबुद्धौ प्रतिफलितचैतन्यप्रतिबिम्बो जीव इति विद्वद्भिरुच्यते। न हि तत् प्रतिबिम्बमात्रं जीव इत्युच्यते; किन्तु यथा घटाकाशसहिताकाशप्रतिबिम्बो जलाकाश इति कथ्यते, एवं कूटस्थसहितचिदाभासो जीव इति कीर्त्यते। तस्माद्बुद्धिस्थचिदाभासो *३ बुद्ध्यधिष्ठानचैतन्यं चेत्युभयं मिलित्वा जीव इति सिद्ध्यति।

*३. अत्र चिदाभासशब्देन बुद्ध्या (अन्तःकरणेन) सहितश्चिदाभासो ग्राह्यः। तथा चान्तःकरणमथवाविद्या, तत्स्थचिदाभासः, तदुभयाधिष्ठानकूटस्थचैतन्यं चेत्येतत्त्वयं मिलित्वा जीव इत्युच्यते। (१) केवलान्तःकरणस्य जीवत्वोक्तौ घटादेर्जडस्यापि तदापत्तिः। अस्वच्छत्वाद्वटादेस्तन्न संभवतीति चेत् - स्वच्छदर्पणादेस्तदापत्तिः। दर्पणादेबाह्यत्वान्नेति चेत्तर्ह्यन्तःस्थानामिन्द्रियाणां तदापत्तिः। इन्द्रियापेक्षया आन्तरत्वादन्तःकरणस्यैव तन्याय्यमिति चेत्, ततोऽप्यान्तरस्याज्ञानस्य तदापत्तिः। किञ्च, जीवस्य चेतनत्वादेव नाचेतनस्यान्तःकरणस्य जीवत्वं घटते। (२) केवलप्रतिबिम्बस्यापि न जीवत्वं संभवति; अन्तःकरणरूपोपाधिमन्तरा प्रतिबिम्बायोगात्। (३) अधिष्ठानचैतन्यस्य जीवत्वोक्तिरसङ्गता; निर्विकारत्वात्तस्य विकारात्मकजीवत्वं न युज्यते। (४) प्रतिबिम्बविशिष्टान्तःकरणं जीवोऽस्त्विति चेन्न उभयोः कल्पितत्वाविशेषाज्जीवस्य नित्यत्वासिद्धौ मुक्ताभावप्रसङ्गात्। किञ्च भागत्यागलक्षणासंभवान्निखिलवाच्यभागत्यागरूपजहल्लक्षणैव सिद्ध्येत् न चैतद्भाष्यकाराभिमतम्। अपि चाधिष्ठानादपृथग्भूतं सत् यदधिष्ठानमावृणोति तदेवारोप्यमित्युच्यते। न ह्यधिष्ठानमन्तरा पृथगारोप्यं कुत्राप्यवभासते। अनेनानुमानेन ‘बुद्धिसहितचिदाभासो जीवः’ इत्येतदपास्तम्। (५) अधिष्ठानचैतन्यं प्रतिबिम्बचैतन्यं चेत्युभयं मिलित्वा जीव इति चेन्न; केवलचैतन्यस्य निर्विकारतया कर्तृत्वभोक्तृत्वादिविकारोपेतजीवत्वासंभवात्। (६) अधिष्ठानचैतन्यमन्तःकरणं चेत्युभयं मिलित्वा जीव इति चेत् दर्पणं दर्पणाधिष्ठानचैतन्यं च मिलित्वा तर्हि जीवः स्यात्। तयोर्जीवत्वं न संभवति। तस्मादन्तःकरणम्, तत्प्रतिफलितचैतन्याभासः तदुभयाधिष्ठानचैतन्यं चेत्येतत्त्रयमपि मिलित्वैव जीव इत्युच्यते। तत्र कूटस्थस्य संसारासंभवाज्जीव एव संसारीत्येष्टव्यं भवति। तथा पञ्चदश्यामुक्तं –

चैतन्यं यदधिष्ठानं लिङ्गदेहश्च यः पुनः।
चिच्छाया लिङ्गदेहस्था तत्सङ्घो जीव उच्यते॥ (द्वै. ११) इति।