ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १६९-१८८ जीवब्रह्मणोरभेदनिरूपणम्
- १७२-१८५ स्वरूपभेदाज्जीवब्रह्मणोरैक्यासङ्गतिरिति शङ्कायाः समाधानम्
- १७७-१८५ चैतन्यस्य चातुर्विध्यवर्णनम्
- १७९-१८३ जीवस्वरूपवर्णनम्
- १७९-१८२ बुद्धिप्रतिबिम्बितचैतन्यं जीवः


आवर्तः १८० – आभासस्वरूपविवेचनम्

प्राग् बिम्बरूपकूटस्थसहितचिदाभासो जीव इति प्रपञ्चितम्। अत इदं प्रतीयते बुद्धौ प्रतिफलितो यः प्रतिबिम्बः स कूटस्थस्यैव न तु बाह्यब्रह्मचैतनस्यस्य। यस्य प्रतिबिम्बोऽन्यत्र प्रतीयते स एव बिम्ब इत्युच्यते। प्रकृते कूटस्थस्य बिम्बत्वाङ्गीकारात् जीवस्तत्प्रतिबिम्ब इत्येव प्रतीयते। तथा हि अत्यन्तरक्तजपाकुसुमाद्युपाध्युपरिस्थस्वच्छस्फटिके तत्पुष्पादिरक्तिमा प्रतीयते। स च स्फटिकादिगतरक्तिमा तत्पुष्पादिप्रतिबिम्ब एव। तथा कूटस्थाश्रितबुद्धौ कूटस्थस्य प्रकाशः प्रतिफलति। स प्रकाश एव *१ चिदाभास इत्युच्यते। अत्यन्तस्वच्छस्फटिकवत् बुद्धिरप्यत्यन्तनिर्मला; सत्त्वगुणकार्यत्वात्तस्याः। तत्र प्रतिफलितकूटस्थप्रकाशस्यैव प्रतिबिम्ब इति समाख्या। बुद्धेः कूटस्थाधिष्ठितत्वाद्बुद्धौ कूटस्थस्यैव प्रतिबिम्ब उचित इति जीवः कूटस्थप्रतिबिम्ब इति पक्षः प्रदर्शितः।

*१. पटविलक्षणत्वे सति पटवद्भासमानत्वं पटाभासत्वं यथा, तथा चिद्विलक्षणत्वे सति चिद्वद्भासमानत्वं चिदाभासत्वम्।

*१ अथवा – ब्रह्मचैतन्यस्य बुद्धौ प्रतिबिम्ब इति पक्षोऽपि सम्भाव्यत एव। तथा हि घटान्तःस्थजले बाह्यमहाकाशप्रतिबिम्ब एव भवति, न तु घटान्तःस्थस्याकाशस्य प्रतिबिम्ब:। घटस्थजले यावान् विस्तार उपलभ्यते तावान् विस्तारो घटान्तः स्थाकाशस्य नास्ति। घटस्थजले उपलभ्यमानविस्तारः आकाशस्य प्रतिबिम्ब एव। तस्माद्वाह्यमहाकाशस्यैव घटस्थजले प्रतिबिम्बो वाच्यः। एवं बुद्धौ व्यापकब्रह्मचैतन्यस्यापि प्रतिबिम्बो भवितुमर्हति।

*१. पूर्वं प्रतिबिम्बः कूटस्थस्यैवेति साधितम्। अधुना स ब्रह्मचैतन्यस्यापीत्युच्यते

व्यापकस्य ब्रह्मचैतन्यस्य प्रतिबिम्बो न युज्यत इतीयमाशङ्का आकाशदृष्टान्तेनैव निराकार्या। यथा आकाशस्य व्यापकस्यापि प्रतिबिम्बः संभवति, तथा व्यापकचैतन्यस्यापि प्रतिबिम्बः संभवेत्। रूपवत एव पदार्थस्य रूपविशिष्टे एव पदार्थान्तरे प्रतिबिम्बोदय इति नियमोऽपि नास्ति। नीरूपस्यापि शब्दस्य नीरूपाकाशे प्रतिबिम्बो दृश्यत एवेति प्रागुक्तत्वात्। तस्मात् संभवत्येव व्यापकनीरूपब्रह्मचैतन्यस्यापि प्रतिबिम्बः।

इत्थं बुद्धिस्थचिदाभासो बुद्ध्यधिष्ठानचैतन्यं चेत्युभयं मिलित्वा जीव इत्युच्यते। सोऽयं जीवः त्वंपदवाच्योऽर्थः। जीवस्थचिदाभासं विहाय परिशिष्टः केवलकूटस्थ एव त्वंपदलक्ष्यार्थः। अहंशब्दस्य वाच्यार्थो जीवः, लक्ष्यार्थस्तु केवलकूटस्थ इति विवेकः।