-
१२२-२२५
चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १६९-१८८ जीवब्रह्मणोरभेदनिरूपणम्
- १७२-१८५ स्वरूपभेदाज्जीवब्रह्मणोरैक्यासङ्गतिरिति शङ्कायाः समाधानम्
- १७७-१८५ चैतन्यस्य चातुर्विध्यवर्णनम्
- १७९-१८३ जीवस्वरूपवर्णनम्
- १७९-१८२ बुद्धिप्रतिबिम्बितचैतन्यं जीवः
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १६९-१८८ जीवब्रह्मणोरभेदनिरूपणम्
- १७२-१८५ स्वरूपभेदाज्जीवब्रह्मणोरैक्यासङ्गतिरिति शङ्कायाः समाधानम्
- १७७-१८५ चैतन्यस्य चातुर्विध्यवर्णनम्
- १७९-१८३ जीवस्वरूपवर्णनम्
- १७९-१८२ बुद्धिप्रतिबिम्बितचैतन्यं जीवः
आवर्तः १८१ – चिदाभास एव पुण्यपापाद्याश्रयः, न कूटस्थः
उभयोः कूटस्थचिदाभासयोर्मिलितयोर्जीवत्वव्यवहारेऽपि कर्तृत्वादयो जीवधर्माः सर्वे चिदाभासमेवाश्रयन्ति। पुण्यम्, पापम्, तत्फलभूतसुखदुःखाद्यनुभवः, लोकान्तरं प्रति गमनम्, तत इहागमनमित्यादि सर्वं चिदाभासविशिष्टबुद्धिरेव करोति, न तु कूटस्थः। कूटो नामायोघनविशेषः अयस्कारादिप्रसिद्धः। तद्वन्निर्विकारतया तिष्ठतीति कूटस्थ उच्यते। अथवा मिथ्याभूतबुद्धिचिदाभासयोः कूट इत्याख्या। तत्रासङ्गतयास्ते इति कूटस्थ इष्यते। अतः कूटस्थे कर्तृत्वादयो न संभवन्ति, किन्तु चिदाभासस्य। भ्रान्त्या ते धर्माः कूटस्थे प्रतीयन्ते।