ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १६९-१८८ जीवब्रह्मणोरभेदनिरूपणम्
- १७२-१८५ स्वरूपभेदाज्जीवब्रह्मणोरैक्यासङ्गतिरिति शङ्कायाः समाधानम्
- १७७-१८५ चैतन्यस्य चातुर्विध्यवर्णनम्
- १७९-१८३ जीवस्वरूपवर्णनम्
- १७९-१८२ बुद्धिप्रतिबिम्बितचैतन्यं जीवः


आवर्तः १८२ – वस्तुतः पुण्यपापादयो न चिदाभासस्यापि धर्माः

विचार्यमाणे तु पुण्यपापतत्फलसुखदुःखलोकान्तरगमनागमनादि सर्वं बुद्धेरेव, न तु *१ चिदाभासस्य अपि। बुद्धितादात्म्यादाभासे तत्सर्वं भाति। यथा जलपूर्णे घटे ऋजुवक्रादिस्वरूपे सति तस्मिन् घटेऽन्येन नीयमाने वा आनीयमाने वा सति तादृशघटसंबन्धादेव तत्स्थाकाशाभासस्ताः क्रियाः करोति, न तु स्वतः किञ्चिदपि करोति; तथा कामकर्मात्मकजलपूरितबुद्धिरूपघटः *२ पुण्यपापादिसकलविक्रियाश्रयो भवति। तत्संबन्धाच्चिदाभासोऽपि विक्रियाश्रयो भवति। *३ कूटस्थस्तु सर्वविकारशून्यः। यथा घटाकाशो जलपूर्णघटगतसर्वविकाररहितस्तथा कूटस्थोऽप्यसङ्ग इति विद्धि। अतो जीवत्वप्रयुक्तनिखिलधर्माश्चिदाभासे भवन्ति। कूटस्थे त्वज्ञानात्प्रतीयन्ते। अतः कूटस्थबुद्धितत्स्थचिदाभाससमुदायो जीव इत्युच्यते।

*१. जलगतशैत्यं तत्र प्रतिबिम्बितादित्यादीन् यथा न स्पृशति तथान्तःकरणगता विकारा अपि तत्र प्रतिबिम्बितचिदाभासं न कदाचिदपि स्पृशन्ति किमु वक्तव्यं तदन्तःकरणाधिष्ठानभूतं प्रत्यगात्मानं न स्पृशन्तीत्यत्र। यथा पृथिव्यादिगताः तत्कार्यगताश्च विक्रियाः पृथिव्याद्याधारभूतमाकाशं न स्पृशन्ति; तद्वदेवानात्मभूताज्ञानं तत्कार्याहङ्कारदेहेन्द्रियादिप्रपञ्चधर्माश्च अज्ञानतत्कार्यनिखिलदृश्याधिष्ठानभूतचिद्रूपप्रत्यगात्मानं स्पृशन्त्येव। अज्ञानात्तु ते धर्माः कूटस्थं स्पृशन्तीव भ्रान्तिर्भवति। न

*२. वस्तुतस्तु सुखदुःखादिसंसारो न बुद्धेरपि संभवति। तथा चोक्तं गुहाधिकरणभाष्ये (ब्र. सू. १.२.१२) “इदं हि कर्तृत्वं भोक्तृत्वं च सत्त्वक्षेत्रज्ञयोरितरेतरस्वभावाविवेककृतं कल्प्यते। परमार्थतस्तु नान्यतरस्यापि संभवति; अचेतनत्वात् सत्त्वस्य, अविक्रियत्वाच्च क्षेत्रज्ञस्य। अविद्याप्रत्युपस्थापितस्वभावत्वाच्च सत्त्वस्य सुतरां न संभवति। तथा च श्रुतिः ‘यत्र वान्यदिव स्यात्तत्रान्योऽन्यत् पश्येत्’ (बृ. ४.३.३१) इत्यादिना स्वप्नदृष्टहस्त्यादिव्यवहारवदविद्याविषय एव कर्तृत्वादिव्यवहारं दर्शयति। ‘यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्येत्’ (बृ. ४.५.१५) इत्यादिना च विवेकिनः कर्तृ। त्वादिव्यवहाराभावं दर्शयति” इति।

*३. यथा चन्द्रस्य स्वतो निर्विकारतया सदैकरूपत्वेऽपि तिथिपक्षाभ्यां चन्द्रस्य कलायामेव वृद्धिक्षयादिकं भवति; यथा वा सदा वृक्षस्यैकरूपत्वेऽपि तत्फलादीनामेव जन्मादिविकारो जायते; तथा स्वयं निर्विकारेऽपि कूटस्थचिन्मात्रे प्रत्यगात्मनि देहादीनामेव जन्मादिषड्विकाररूपपरिणामो जायते। यदि कूटस्थ एव परिणमेत्, तर्हि स जडः स्यात्। परिणामः विकारः = प्रकृतेरन्यथाभावः। तस्मात्कूटस्थस्य विकारो न कथञ्चनोपपद्यते।