- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १६९-१८८ जीवब्रह्मणोरभेदनिरूपणम्
- १७२-१८५ स्वरूपभेदाज्जीवब्रह्मणोरैक्यासङ्गतिरिति शङ्कायाः समाधानम्
- १७७-१८५ चैतन्यस्य चातुर्विध्यवर्णनम्
- १७९-१८३ जीवस्वरूपवर्णनम्
आवर्तः १८३ – अज्ञानप्रतिबिम्बचैतन्यं जीवः
स्वरूपेऽङ्गीक्रियमाणे प्राज्ञस्य हानिरुपजायते। तथा प्रागुक्तजीवसुषुप्त्यभिमानिनो जीवस्य प्राज्ञ इति नाम। सुषुप्तौ बुद्धेरभावात्तत्स्थचिदाभासोऽपि न सिद्ध्यति। ततश्च प्राज्ञस्वरूपप्रतिपादकशास्त्रं निर्विषयं भवेत्। अतः प्रकारान्तरेण जीवस्वरूपनिरूपणं क्रियते। अज्ञानस्यैकदेशो व्यष्ट्यज्ञानम् इति, सम्पूर्णाज्ञानं तु समष्ट्यज्ञानम् इति चोच्यते। तत्राज्ञानैकदेशप्रतिबिम्बितचिदाभासः, तदज्ञानांशाधिष्ठानभूतकूटस्थचैतन्यं च मिलित्वा जीव इत्युच्यते। न चैतस्मिन् जीवस्वरूपे प्राज्ञस्याभावः संभवति, सुषुप्तावज्ञानस्य सत्त्वात्। सुषुप्तौ यः चैतन्यप्रतिबिम्बविशिष्टाज्ञानांशः स बुद्ध्यात्मना परिणमते। तत्र चैतन्यप्रतिबिम्बोऽपि सहैव वर्तते। अस्यां चिदाभासयुक्तायां बुद्धौ पुण्यापुण्यादिरूपः संसारः प्रतीयते। अनेनाभिप्रायेण बुद्धिरेव शास्त्रेष्वपि क्वचिज्जीवोपाधितया वर्ण्यते। विचारदृष्ट्या तु जीवस्योपाधिरज्ञानमेव।