ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १६९-१८८ जीवब्रह्मणोरभेदनिरूपणम्
- १७२-१८५ स्वरूपभेदाज्जीवब्रह्मणोरैक्यासङ्गतिरिति शङ्कायाः समाधानम्
- १७७-१८५ चैतन्यस्य चातुर्विध्यवर्णनम्


आवर्तः १८४ – *१ ईश्वरस्वरूपवर्णनम्

*१. ईश्वरस्वरूपं तु बहुधानेकैर्वर्ण्यते। तथा हि –

(१) योगमतानुसारिण स्त्वेवमाहुः चैतन्यसमीपस्थप्रकृतिप्रेरको जीवविलक्षणः पुरुष ईश्वरः। स चेश्वरः । क्लेशकर्मतत्फलादिभिरसंस्पृष्टो जीववदसङ्गश्चिन्मात्रः। जीवस्यापि क्लेशाद्यभावेष्वविवेकवशात् तत्सत्त्वं प्रतीयते। अयमेव जीवेश्वरयोर्भेदहेतुः।

(२) न्यायमतानुसारिणस्तु असङ्गस्येश्वरस्य नियामकत्वासंभवात् योगमतमाक्षिप्य, ईश्वरस्य ज्ञानेच्छाप्रयत्नादिगुणा नित्याः; अतो जीवाद्विलक्षणो भिन्नश्वेश्वर इत्याहुः।

(३) हिरण्यगर्भोपासकास्तु श्वज्ञानाद नित्यत्वे “सोऽकामयत” (तै. ब्र. ६) इत्यादिश्रुतिवाक्यानां सृष्ट्यारम्भसमये ईश्वरज्ञानादीनामुत्पत्तिप्रतिपादकानां विरोधः स्यात्; सदा सृष्टिप्रसङ्गश्च स्यात्। अतोऽसङ्गतं न्यायमतम्। हिरण्यगर्भ एवेश्वरः। अस्य लिङ्गशरीरसत्त्वेऽप्यविद्याकामकर्माद्यभावात् जीवविलक्षणः स इत्याचक्षते।

(४) विराडुपासकास्तु विना स्थूलदेहं लिङ्गदेहमात्रस्य कुत्राप्यननुभूतत्वाद्विराद्दुरुष एवेश्वर इत्याहुः।

(५) प्रजापत्युपासकास्तु प्रजाकामाः सन्तः पाणिपादादियुक्तप्राकृतशरीरवत ईश्वरत्वे क्रिम्यादेरपीश्वरत्वप्रसङ्गात् हिरण्यगर्भोपासकमतमसङ्गतम्, डुपासकमतमप्यसङ्गतम्। किन्तु चतुर्मुखो ब्रह्मैवेश्वर इति प्राहुः।

(६) वैष्णवास्तु विष्णुरेवेश्वर इति कथयन्ति। विष्णोर्नाभिकमलोत्पन्नत्वाच्चतुर्मुखस्य था विराब्रह्मणस्तत्कारणीभूतो

(७) शैवास्तु शिवस्य पदान्वेषणेऽशक्तत्वाद्विष्णोः, शिव एवेश्वर इति वदन्ति।

(८) गणपत्युपासकास्तु त्रिपुरासुरजयार्थमीश्वरेणाप्युपासितो गणपतिरेवेश्वर इति मन्यन्ते।

(९) भैरवमैरालाद्युपासकास्तु मारणोच्चाटनवशीकरणस्तम्भनादिसिद्धिहेतुभूतभैरवादिमन्त्रान् तत्तत्स्तोत्राणि, तद्धवनतर्पणपुरश्चरणादिप्रतिपादकतन्त्रग्रन्थांश्च प्रमाणीकृत्य भैरवादिदेवता ईश्वरत्वेन वर्णयन्ति।

इत्थमनन्तमतानि स्वस्वमतिविलसितानि परस्परविलक्षणान्यन्योन्यविरुद्धानि चोपलभ्यन्ते। सकलमताविरोधेनैतद्ग्रन्थोक्तेश्वरस्वरूपमेव श्रुत्यभिप्रेतम्।

तथा चोक्तं पञ्चदश्याम् –

एवमन्ये स्वस्वपक्षाभिमानेनान्यथान्यथा।
मन्त्रार्थवादकल्पादीनाश्रित्य प्रतिपेदिरे॥ चित्रदीपे १२०॥

अन्तर्यामिणमारभ्य स्थावरान्तेशवादिनः।
सन्त्यश्वत्थार्कवंशादेः कुलदैवतदर्शनात्॥ १२१॥

तत्त्वनिश्चयकामेन न्यायागमविचारिणाम्।
एकैव प्रतिपत्तिः स्यात् साप्यत्र स्फुटमुच्यते॥ १२२॥

*२ मायायां प्रतिबिम्बितचिदाभासः मायाधिष्ठानचैतन्यं चेत्युभयं मिलित्वा ईश्वर इत्युच्यते। अयं चेश्वरो मेघाकाशतुल्यो भवति। अयमेव अन्तर्यामी इत्युच्यते। सर्वेषामन्तःस्थः सन् नियन्तृत्वात् प्रेरकत्वाद् अन्तर्यामी। अयं नित्यमुक्तः, स्वस्वरूपावारकाज्ञानाभावात्तस्य। अत एव जन्ममरणादिबन्धप्रतीतिरस्य नास्ति तत एव ईश्वरो नित्यमुक्त इत्युच्यते। किञ्चेश्वरः सर्वज्ञः, तस्योपाधिभूतमायायाः शुद्धसत्त्वगुणप्रधानत्वादस्य सर्वज्ञत्वसिद्धिः। स्वप्रतिबन्धकीभूतरजस्तमसौ अभिभूय स्वयं ताभ्यामनभिभूतो यः सत्त्वगुणस्तस्य शुद्धसत्त्वम् इत्याख्या। सत्त्वगुणादेव ज्ञानमुत्पद्यते। अतः सत्त्वगुणः प्रकाशस्वभावः। एवंभूतसत्त्वगुणप्रधानमायायां प्रतिफलितचैतन्याभासरूपेश्वरस्य स्वविषये विषयान्तरे वा नैवावरणं संभवति। तस्मादीश्वरो नित्यमुक्तः सर्वज्ञश्च भवति।

*२. मायास्थबुद्धिवासनायां प्रतिफलितचैतन्यप्रतिबिम्ब ईश्वर इति विद्यारण्यकृतपञ्चदश्यामभिहितम्। ईश्वरो मेघाकाशकल्प इत्यत्र मेघसदृशी माया, मेघस्थजलसमाना बुद्धिवासनाः; तज्जलस्थाकाशप्रतिबिम्बसमाश्चिदाभासाः। बुद्धिवासनाप्रतिफलितप्रतिबिम्बसम ईश्वर इति कथने न कोऽपि दोषः प्रसज्यते। मायारूपाज्ञानस्यैवेश्वरत्वापादकोपाधित्वेऽपि बुद्धिगतवासना अज्ञाने अन्तर्गता भवन्ति। सर्वज्ञत्वस्य तु कारणमज्ञानगतसत्त्वगुण एव। अयञ्च सत्त्वगुणो ज्ञानरूपसकलबुद्धीनामुपादानकारणं भवति। तस्मात् सुषुप्तौ सकलबुद्धयः स्वोपादानांशे विलीयोपादानात्मनैव वर्तन्ते। उपादानरूपेणावस्थितिरेव सूक्ष्मसंस्कार इत्युच्यते। अयमेव संस्कारो वासनेत्यपि कथ्यते। इत्थमज्ञानगतसत्त्वांशात् पृथग्वासना । नाम न काचनास्ति। तस्माद्बुद्धिवासनाशब्देनाज्ञानस्य सत्त्वांश एव ग्राह्यः।

जीवेश्वरयोरधिष्ठानभूतं शुद्धचैतन्यं बन्धमोक्षादिनिखिलभेदशून्यं सदाकाशवदेकरसस्वभावं तयोरुभयोरपि वर्तते। बन्धमोक्षादिस्तु आभासांशे एव। अधिष्ठाने चैतन्ये त्वाभासस्य भ्रान्त्या प्रतीयते। तस्मात् केवलाभासे एव बन्धमोक्षादिव्यवहारः।

तत्राप्यस्त्येतावान् भेदः – यस्मिन्नाभासे स्वरूपावरणमस्ति तस्मिन्नेव बन्धः। यत्र नास्ति स तु मुक्त एव। ईश्वरे आवरणाभावादेव स नित्यमुक्तः। जीवेत्वावरणसत्त्वात् स बद्धः; यतो यस्या अविद्याया अंशे प्रतिबिम्बितस्य चिदाभासस्य जीवत्वं भवति तस्या अविद्याया आवारकत्वं स्वभावः। यद्यप्येकस्यैव वस्तुनो माया, अज्ञानम्, अविद्या, इत्यादिनामानि तथापि तस्यैव शुद्धसत्त्वगुणप्रधानत्वात् ‘माया’ इति, मलिनसत्त्वगुणप्रधानत्वाच्च ‘अज्ञानम्’, ‘अविद्या’ इति च व्यवहारः। रजस्तमोगुणाभ्यामभिभूतः सत्त्वगुणो मलिनसत्त्वगुण इत्युच्यते। रजस्तमोगुणाधिक्यादेवाविद्या स्वप्रतिबिम्बितजीवरूपचिदाभासांशस्यावरणं करोति। अत एव जीवो बद्धो नेश्वरः। सर्वाधिष्ठानभूतशुद्धचैतन्यसहितो मायाप्रतिबिम्बितचिदाभासरूप ईश्वरस्तत्पदवाच्यार्थः। केवलाधिष्ठानशुद्धचैतन्यं तत्पदलक्ष्यार्थः। ईश्वरो जगदुत्पत्तिस्थितिसंहारान् करोतीति शास्त्रोक्तेरयमभिप्रायः अधिष्ठानभूतशुद्धचैतन्यमाकाशवदसङ्गम्। मायाप्रतिबिम्बितचिदाभासांशो जगदुत्पत्त्यादिकं करोति। सर्वज्ञत्वादिगुणोऽपि तस्यैव। भक्तानुग्रहादिकर्तृत्वमैश्वर्यान्तरमपि तस्यैव चिदाभासांशस्य। चैतन्यस्वरूपं त्वेकरसं सर्वसमम्। तस्मिन् *१ सत्तास्फूर्तिप्रदत्वम् अन्तरा अन्यदैश्वर्यादिकं न किञ्चिदप्युपपद्यते। इति।

*१. सत्तास्फूर्तिप्रदत्वम् = स्थितिभानप्रदत्वम्।