- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १६९-१८८ जीवब्रह्मणोरभेदनिरूपणम्
- १७२-१८५ स्वरूपभेदाज्जीवब्रह्मणोरैक्यासङ्गतिरिति शङ्कायाः समाधानम्
- १७७-१८५ चैतन्यस्य चातुर्विध्यवर्णनम्
आवर्तः १८५ – ब्रह्मस्वरूपवर्णनम्
महाकाशवत् ब्रह्माण्डानामन्तर्बहिश्च व्याप्य वर्तमानमखण्डपरिपूर्णचैतन्यं ब्रह्मेत्युच्यते। भाष्ये चोक्तम् – “ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्ते, बृहतेर्धातोरर्थानुगमात्। सर्वस्यात्मत्वाच्च ब्रह्मास्तित्वप्रसिद्धिः” (ब्र. सू. भा. १.१.१) इति रत्नप्रभायामप्येवं व्याख्यातम् “स चार्थो महत्वरूप इति व्याकरणान्निश्चीयते; ‘बृहि वृद्धौ’ इति स्मरणात्। सा च वृद्धिर्निरवधिकमहत्वमिति, सङ्कोचकाभावात् श्रुतावनन्तपदेन सह प्रयोगाच्च ज्ञायते” इति, “अतो बृंहणादब्रह्मेति व्युत्पत्त्या देशकालवस्तुकृतपरिच्छेदाभावरूपं नित्यत्वं प्रतीयते” इति च। तथा सूतसंहिताव्याख्यानेऽप्युक्तम्। (यज्ञ. ब्रह्मगी. ३.३१) “ब्रह्म सत्यज्ञानसुखाद्वयम् बृहधात्वर्थस्यानुगमात्। तथा ‘बृह वृद्धौ” इति धातुर्वृद्धिमाचष्टे। सा च वृद्धिः प्रतियोगिविशेषानुपादानान्निरतिशयैव विवक्षिता। सति च वस्त्वन्तरे तेन परिच्छेदाद् वृद्धेर्निरतिशयत्वं भज्येत। तथा च वस्त्वन्तरकृतपरिच्छेदरहितमेव ब्रह्मशब्दवाच्यं भवितुमर्हति। द्वैतप्रपञ्चस्य तत्स्वरूपेऽध्यस्ततयैव प्रतीतेर्वस्तुतस्तत्स्वरूपानतिरिक्तत्वात्। तथा च वस्तुकृतपरिच्छेदनिराकरणेनैव देशकालकृतपरिच्छेदोऽपि निरस्तो वेदितव्यः। देशकालयोरपि परिकल्पितत्वेन वस्तुतस्तद्रूपानतिरेकात्। एवं द्वैतापरोक्षस्याधिष्ठानत्वेन तद्बाधावधित्वेन च त्रिविधपरिच्छेदरहितं यदद्वितीयं तत्सत्यमेवेष्टव्यम्” इति।
इदं च ब्रह्म न दूरे नाप्यन्तिके वर्तते। यद्धि वस्तु स्वस्मादन्यत्वेनानात्मभूतं देशादिरूपोपाधिपरिच्छिन्नं च भवति तदेव दूरे अन्तिके वा वर्तत इत्युच्यते। इदं तु ब्रह्म न प्रत्यगात्मनो भिद्यते; किं तर्हि, सर्वस्य प्रत्यगात्मभूतं देशादिरूपसर्वोपाधिशून्यं च भवति। तस्मादेव तत् दूरेऽन्तिके वा वर्तमानतया नोच्यते।
ब्रह्मशब्दस्य हि वाच्योऽर्थः सोपाधिक एव व्यापकत्वधर्मविशिष्टस्य वस्तुनो ब्रह्मशब्दाभिधेयत्वात्। इदं च व्यापकत्वं द्विविधम्, सापेक्षं (सातिशयं) निरपेक्षं (निरतिशयं) चेति। यद्वस्तु स्वव्याप्यापेक्षया व्यापकम् स्वव्यापकापेक्षया व्याप्यं भवति, तद् आपेक्षिकव्यापकम् इत्युच्यते। यथा पृथिव्यादिरूपस्वकार्यापेक्षया व्यापिनी माया; चैतन्यापेक्षया तु न व्यापिनी, किन्तु व्याप्या। तस्मान्मायायामापेक्षिकमेव व्यापकत्वमस्ति। यद्वस्तु सर्वापेक्षया व्यापकं भवति तन्निष्ठव्यापकत्वं निरपेक्षव्यापकत्वम् इत्युच्यते। इदं च निरपेक्षव्यापकत्वं चैतन्ये एव वर्तते।न तत्समश्चाभ्यधिकश्च दृश्यते” (श्वे. ६.८) इत्यादिश्रुत्या तत्समं वाधिकं वा न किञ्चन व्यापकं वस्तु विद्यते इति सिद्धत्वात्। तस्माच्चैतन्यस्यैव सर्वापेक्षया व्यापकत्वश्रवणात्तदेव निरपेक्षव्यापकमिति सिद्ध्यति।
एतद्द्विविधव्यापकत्वविशिष्टं वस्तु ब्रह्मशब्दस्य द्विविधमप्येतद्व्यापकत्वं वर्तते मायाशबलित चैतन्ये वाच्यार्थः। विशिष्टनिष्ठविशेषणीभूतमायारूपांशे आपेक्षिकव्यापकत्वं विशेष्यभूतचैतन्यांशे निरपेक्षव्यापकत्वं च वर्तते। *१ चैतन्यैकदेशे मायायाः सत्त्वात्, मायाविशिष्टचैतन्यापेक्षया शुद्धचैतन्यस्याधिकव्यापकत्वाच्च तदेव निरपेक्षव्यापकम्, न तु मायाविशिष्टचैतन्यम्। तथापि यतो मायाविशिष्टचैतन्यं परमार्थदृष्ट्या शुद्धचैतन्यादनतिरिक्तं सच्छुद्धरूपमेव भवति तस्मान्मायाविशिष्टेऽपि यश्चैतन्यांशस्तत्र निरपेक्षमेव व्यापकत्वमस्ति। इत्थं मायाविशिष्टचैतन्यमेव ब्रह्मशब्दस्य वाच्यार्थ इति युक्तमेवोक्तम्। शुद्धचैतन्यं तु ब्रह्मशब्दस्य लक्ष्यार्थः। तस्मादीश्वरब्रह्मशब्दयोरेक एवार्थः प्रतीयते; न भिन्नार्थता। तथाप्यस्त्ययं विशेषः ब्रह्मशब्दः स्वरसतो लक्ष्यार्थमेव प्रायशो बोधयति, काचित्कतया तु वाच्यार्थमपि। ईश्वरशब्दस्तु वाच्यार्थमेव प्रायशो बोधयति, लक्ष्यार्थं तु काचित्कतया। ईदृग्भेदसद्भावादेव लक्ष्यार्थमवलम्ब्य ब्रह्मशब्दस्यार्थो भिन्नतया निरूपितः।
*१. न हि घटोपादानत्वशक्तिर्मृत्सामान्ये वर्तते, किन्तु मृद्विशेषे एव। एवमेव माया न ब्रह्मणि सर्वत्र वर्तते, किन्त्वेकदेशे एव। (प. द. २.५४, २.८७, २.८८)