-
१२२-२२५
चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १६९-१८८ जीवब्रह्मणोरभेदनिरूपणम्
- १६९-१८८ “द्वा सुपर्णा” इति श्रुत्या जीवब्रह्मभेदः अवगम्यत इति, अन्यथा कर्मोपासनाविधिवैयर्थ्यमिति च शङ्कायाः समाधानम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १६९-१८८ जीवब्रह्मणोरभेदनिरूपणम्
- १६९-१८८ “द्वा सुपर्णा” इति श्रुत्या जीवब्रह्मभेदः अवगम्यत इति, अन्यथा कर्मोपासनाविधिवैयर्थ्यमिति च शङ्कायाः समाधानम्
आवर्तः १८६ – चैतन्याभासो भुङ्क्ते, कूटस्थोऽसङ्गः प्रकाशते
चतुर्विधं चैतन्यमुक्तम्। तत्र जीवस्वरूपान्तर्गतमिथ्याभूतचिदाभासांश एव पुण्यपापे कृत्वा तत्फलमनुभवति, न कूटस्थः। स त्वसङ्गतया आनन्दस्वरूप एव प्रकाशते। यदुक्तं ‘बुद्धिरूपवृक्षे जीवः परमात्मा चेति द्वौ पक्षिणो स्तः, तयोर्जीवः कर्मफलं भुङ्क्ते परमात्मा तं प्रकाशयन्नास्ते इति द्वा सुपर्णेति श्रुतेरर्थः;´ इति, तत्रोच्यते न तत्र जीवपरमात्मानौ ग्राह्यौ; किन्त्वाभासः कर्मफलं भुङ्क्ते कूटस्थः प्रकाशमान आस्ते इति तस्याः श्रुतेरर्थो ज्ञेयः।