ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १६९-१८८ जीवब्रह्मणोरभेदनिरूपणम्
- १८६-१८८ “द्वा सुपर्णा” इति श्रुत्या जीवब्रह्मभेदः अवगम्यत इति, अन्यथा कर्मोपासनाविधिवैयर्थ्यमिति च शङ्कायाः समाधानम्


आवर्तः १८७ – चैतन्याभास एव कर्मकर्ता, फलदाता च, न तु शुद्धचैतन्यम्

जीवस्वरूपान्तर्गतचिच्छायारूपाभासांशः कर्म करोति कर्म कुर्वत आभासांशस्य ईश्वरस्वरूपान्तर्गतचिच्छायारूपाभासांशः फलं प्रयच्छति। आभास एव कर्मकर्ता, आभास एव फलदाता च। अनेनायमर्थः सिद्धः – जीवस्वरूपान्तर्गताभासांशः पुण्यपापे कृत्वा तत्फलानि भुङ्क्ते। ईश्वरनिष्ठाभासांशस्तु कर्मफलानि प्रयच्छतीति।

एतदुभयानुगतचैतन्यांशे न कापि वार्तास्ति। जीवगतचैतन्यांशे कर्मकर्तृत्वतत्फलभोक्तृत्वरूपसंबन्धो न वर्तते। ईश्वरगतचैतन्यांशेऽपि न कर्मफलदातृत्वरूपसंबन्धोऽस्ति। यस्तु तस्मिन् चैतन्ये कर्मकर्तृत्वफलदातृत्वादिकं वर्णयति स मूर्ख एव। यतश्चैतन्यमुभयत्राप्यसङ्गमेकरूपं च वर्तते।

चैतन्यमात्रे न कोऽपि भेदगन्धोऽस्ति। यस्तु जीवचैतन्यमीश्वरचैतन्यात्, ईश्वरचैतन्यं वा जीवचैतन्याद्भिन्नतया मन्यते स विगर्ह्य एव भवति। तथा च श्रुतिः “ब्रह्म तं परादात् योऽन्तत्रात्मनो ब्रह्म वेद; सर्वं तं परादात् योऽन्यत्रात्मनः सर्वं वेद।” (बृ. २.४.६, ४.५.७) “मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति” (क. २.१.११, बृ. ४.४.१९) “उदरमन्तरं कुरुते, अथ तस्य भयं भवति” (तै. ब्र. ७) इति।

एतेन ‘जीवेश्वरयोरैक्याभ्युपगमे कर्मोपासनप्रतिपादकवेदभागोऽनुष्ठात्राभावान्निरर्थकः स्यात् इतीयं द्वितीया शङ्कापीदानीं समाहिता। जीवेश्वरानुगतचैतन्यभागयोरभेदः, आभासभागयोर्भेदश्चास्ति; तस्मादुभयविधयोरपि वेदभागयोः प्रामाण्यं समञ्जसम्।