ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १६९-१८८ जीवब्रह्मणोरभेदनिरूपणम्
- १८६-१८८ “द्वा सुपर्णा” इति श्रुत्या जीवब्रह्मभेदः अवगम्यत इति, अन्यथा कर्मोपासनाविधिवैयर्थ्यमिति च शङ्कायाः समाधानम्


आवर्तः १८८ – जीवब्रह्मणोर्लक्ष्यार्थाभेदसंभवात् “अहं ब्रह्म” इति जानीयादिति गुरोरुपदेशः

हे सोम्य। त्वत्कृतप्रश्नद्वयमध्ये ‘एकस्मिन् वृक्षे द्वौ पक्षिणौ स्तः; तयोरेको भोक्ता, अपरो निरीहः; अतो जीवब्रह्मैक्यं न घटते;’ इति हि प्रथमः प्रश्नः। तत्रैवं समाधानमुक्तम् ‘एकवृक्षस्थपक्षिणोर्मध्ये एकः कूटस्थोऽपरो बुद्धौ प्रतिफलितचिदाभास इत्येवं ग्राह्यम्, न तु जीवपरमात्मानाविति ग्राह्यमिति; एतयोर्घटाकाशस्य आकाशच्छायायाश्च भेदः’ इति चोक्तम्।

त्वत्कृतद्वितीयप्रश्नरीत्या न जीवः कर्मोपासनयोः कर्ता, नापीश्वरस्तत्फलदाता। किन्तु तौ चिदाभासावेव। जीवगताभासांशः कर्मोपासनादि करोति, ईश्वरगताभासांशः फलं ददाति। जीवेश्वरानुगतचैतन्यांशस्तु घटाकाशमहाकाशवद्भेदशून्यः। इत्थं जीवब्रह्मणोरैक्यं सिद्ध्यति। अतः ‘अहं ब्रह्मास्मि’ इत्येव त्वं विजानीयाः। अत्राहंशब्दार्थः कूटस्थ इति, ब्रह्मशब्दार्थो महाकाशसमतयोक्तलक्ष्यार्थभूतशुद्धचैतन्यमिति चावेहि। अहमिति ब्रह्मेति च शब्दयोर्वाच्यार्थयोरैक्यासंभवेऽपि लक्ष्यार्थयोस्तत्सिद्ध्यत्येव। हे सोम्य। यावत् ‘अहं ब्रह्मास्मि’ इत्यपरोक्षसाक्षात्कारस्तव दृढतरो न जायते तावद्दुःखदैन्य भयादिकं त्वां न जहाति। स्वस्वरूपाद्भिन्नतया परमात्मनो ज्ञानमेव ते भयहेतुर्भवति। “उदरमन्तरं कुरुते, अथ तस्य भयं भवति” (तै. ब्र. ७) इत्यादिश्रुतेः। तस्मात् ‘अहं ब्रह्मास्मि’ इत्येव त्वं विजानीयाः।