ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि

- १६९-२२५ “अहं ब्रह्म” इति ज्ञानं कस्येति विचारः

आवर्तः १८९ – तत्त्वदृष्टिप्रश्नः

हे स्वामिन्। ‘अहं ब्रह्म’ इति ज्ञानं कस्य जायते। कृपयैतन्मे वक्तुमर्हसीति। प्रश्नस्यायमभिप्रायः ‘अहं ब्रह्म’ इति ज्ञानं किं कूटस्थस्य जायते, उत चिदाभासविशिष्टबुद्धेः। यदि कूटस्थस्येत्युच्यते तदा विकारी स्यात्कूटस्थः। यदि चिदाभसविशिष्टबुद्धेरित्युच्यते तर्हि तस्योत्पद्यमानं ‘अहं ब्रह्म’ इति ज्ञानं भ्रमरूपं स्यात्। ‘कूटस्थो ब्रह्म चेत्युभयमेकमेव, आभासस्तु कल्पितत्वाद्ब्रह्मणो भिन्न: इति प्रागभिहितं भवता। तस्मात् ब्रह्मणोऽन्यस्य चिदाभासस्य ब्रह्मत्वेन ज्ञानं भ्रमरूपमेव स्यात्; यथा सर्पाद्विलक्षणायां रज्ज्वां सर्पज्ञानं जायमानं भ्रान्तिरूपमेव, तद्वत्। एवं च चिदाभाससहितबुद्धेर्जायमानं ‘अहं ब्रह्म’ इति ज्ञानं न यथार्थानुभवरूपं भवेत्, किन्तु भ्रमरूपमेव स्यात्।

‘अहं ब्रह्म’ इति ज्ञानस्य भ्रमत्वाङ्गीकारे न तेन ज्ञानेन मिथ्याभूतं जगन्निवर्तेत। यथार्थज्ञानादेव हि मिथ्याभ्रमनिवृत्तिर्दृष्टा; रज्जुतत्त्वज्ञानेन मिथ्यासर्पनिवृत्तिवत्। तस्मादाभासविशिष्टबुद्धेः ‘अहं ब्रह्म’ इति ज्ञानं जायते इत्येतद्वचनमनुपपन्नमेवेति।