- १-११ वस्तुनिर्देशरूपमङ्गलाचरणम्
- ४-११ स्वप्रत्यगात्मविषयकमङ्गलाचरणविषये आक्षेपसमाधानानि
आवर्तः ६ – द्वितीय आक्षेपः
ननु हरिहरादयो देवाः मायाविशिष्टचैतन्यात्मकेश्वररूपसमुद्रस्य तरङ्गा इति वक्तुं युक्तं, न तु तव। अतः ईश्वरविषयकं मङ्गलाचरणं युज्यते।
किञ्च वृक्षमूलसेचनेन यथा तच्छाखास्कन्धादयस्तृप्यन्ति, यथा अन्नपानादिजनितप्राणतृप्त्या इन्द्रियादितृप्तिः, एवमीश्वरविषयकमङ्गलाचरणेनैव तद्विभूतिभूतेतरदेवतामङ्गलाचरणं सिद्ध्येत्, न तु त्वन्मङ्गलाचरणादिति चेत्।
It is appropriate to say that hari, hara and other devas are waves in the ocean of īśvara … not in you. Thus, the maṅgalācaraṇa should have īśvara as the object.
Just as watering the roots of a tree also support it’s branches; and just as food and water please the prāṇas and support the sense organs; in the same way, maṅgalācaraṇa for īśvara also results in maṅgalācaraṇa for all other devatās, and not maṅgalācaraṇa to youself.
आवर्तः ७ – समाधानम्
उच्यते – योगिभिर्हृदये चिन्त्यमानः सर्वज्ञः कृपालुरीश्वरोऽपि मायोपाधिवशान्मय्येवाखण्डचिन्मात्रे स्वप्नेद्रजालमायामरीच्युदकगन्धर्वनगररज्जुसर्पादिवन्मृषाऽध्यारोपितः।
Even īśvara who is contemplated upon by yogis, and who is sarvajña and kr̥pālu is superimposed on the akhaṇḍa cit, due to the māyā-upādhi; just like the magic of sleep, mirage in a desert, rope-snake etc.
तथा चोक्तम् –
“मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम्।
मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम्”॥ (कै.19)
“आत्मत एवेदं सर्वम्” (छा. 7.26.1)
“अणोरणीयानहमेव तद्वन्महानहं विश्वमिदं विचित्रम्।
पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि”॥ (कै.२०)
“स्वपूर्णात्मातिरेकेण जगज्जीवेश्वरादयः।
न सन्ति नास्ति माया च तेभ्यश्चाहं विलक्षणः॥
सर्वाधिष्ठानरूपोऽस्मि सर्वदा चिद्घनोऽस्म्यहम्।
रक्षको विष्णुरित्यादि ब्रह्मा सृष्टेस्तु करणम्॥
संहारे रुद्र इत्येवं सर्वं मिथ्येति निश्चिनु॥”
“तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते” (के. 1.4.8),
“अथ योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुः” (बृ. 1.4.10),
“सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद” (बृ. 2.4.6) इत्यादिश्रुतिभ्यः।
“सर्वं चैतदविद्यया त्रिगुणया सेशं मया कल्पितम्।”
स्वस्मिन्नेव स्वप्नवदीशानत्वादिसर्वकल्पनया॥
जीवः सर्वविकारोपादानमिति ब्रुवन्त्यन्ये॥
इत्यादिवचनशतेभ्यश्च।
‘यद्यत्र कल्पितं नैव तत्ततोऽधिष्ठानादतिरिच्यते’ इति न्यायादीश्वरादीनां मय्यखण्डचिदात्मन्यध्यस्तत्वेन मत्स्वरूपानुसन्धानादेव तेषां देवतान्तराणामपि मङ्गलाचरणं सिद्ध्यतीति न काप्यनुपपत्तिः॥
“That which is kalpita does not stand apart from it’s underlying adhiṣtḥāna”. In line with this maxim, since īsvara is also adhyasta on the akhaṇḍa cidātma that is me, svarūpa anusandhāna of myself gives the results of the maṅgalācaraṇa of the other devatās as well.