कैवल्योपनिषत् २२
मय्येव सकलं जातं मयि सर्व प्रतिष्ठितम्।
मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम्॥२२॥
दीपिका
प्रपञ्चवैलक्षण्यं स्वस्योक्त्वा इदानीं जगज्जन्मादिकारणत्वमपि स्वस्याह –
मय्येव मत्त एव – ब्रह्माभिन्नात्, न तु अन्यस्मात् – सकलं निखिलं भूतभौतिकप्रपञ्चजातम्। जातमुत्पन्नम्। मयि ब्रह्माभिन्ने सर्वं निखिलं विश्वं प्रतिष्ठितं प्रकर्षेण स्थितं प्राप्तम्। मयि सर्वं व्याख्यातं लयं याति विनाशं गच्छति। तत् तस्मात् सर्वजगज्जन्मस्थितिध्वंसकारणत्वात् ब्रह्म बृहत् देशकालवस्तुपरिच्छेदशून्यं अद्वयं ज्ञातृज्ञेयादिविभागशून्यं अस्मि भवामि अहं ब्रह्मणोऽवगन्ता॥२२॥