ॐ गुरुपरमात्मने नमः



कैवल्योपनिषत् ४

न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः॥४॥

दीपिका

इदानीं यथा श्रद्धाभक्तिध्यानयोगो ब्रह्मविद्यायां कारणं तद्वत् संन्यासोऽपीत्याह –

न कर्मणेति श्रौतेन स्मार्तेन वा न प्रजया पुत्रादिना धनेन दैवेन मानुषेण वा वित्तेन नेति पूर्वमनुषज्यते। अमृतत्वमिति वक्ष्यमाणानुषङ्गः कर्मप्रजाघनपदेष्वनुगन्तव्यः। त्यागेन निखिलश्रौतस्मार्तकर्मपरित्यागेन परमहंसाश्रमरूपेण एके महात्मानः अमृतत्वं अविद्यादिमरणभावराहित्यं आनशुः आनशिरे प्राप्ताः॥४॥