ॐ गुरुपरमात्मने नमः



ईशावास्योपनिषत् १८ – अग्ने नय सुपथा

अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान्।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं विधेम॥१८॥

एवमुपास्यां *१ देवतां संप्रार्थ्य सुमार्गप्राप्त्यर्थं कर्मसाधनभूतां देवतां प्रार्थयते–

हे अग्ने अस्मान् *२ समुच्चयानुष्ठातॄन् सुपथा शोभनेनोत्तरायणमार्गेण नय प्रापय राये धनाय कर्मफलभोगायेति यावत्। हे देव दीप्तिमन् विश्वानि सर्वाणि वयुनानि कर्माणि उपासनानि च विद्वान् जानन् सन् त्वं अस्मत् उपासकेभ्यः जुहुराणं कुटिलं वञ्चनात्मकं एनः पापं युयोधि वियोजय, ते तुभ्यं भूयिष्ठां अधिकतरां नम उक्तिं नमस्कारवचनं विधेम कुर्म इत्यर्थ॥१८॥

इति श्रीमदुदासीनवर्यामरदासपदपद्ममकरन्दतृप्तमानसेन श्रीमदमरदासाख्येन विरचिता ईशावास्योपनिषद्व्याख्या उपनिषन्मणिप्रभा समाप्तिङ्गता॥

*१ - अग्निदेवताम्।

*२ - कर्मोपासनसमुच्चय।