ईशावास्योपनिषत् १७ – वायुरनिलममृतम्
वायुरनिलममृतमथेदं भस्मान्तꣳ शरीरम्।
ॐ क्रतो स्मर कृतꣳ स्मर क्रतो स्मर कृतꣳ स्मर॥१७॥
मरणकाले तूपासकेनैवमनुसंधातव्यमित्याह *१ –
वायुः मम प्राणोऽनिलं बाह्यं वायुममृतं देवतात्मकं प्रविशत्विति शेषः। वायूपलक्षितं मम लिङ्गशरीरमुत्क्रामत्विति द्रष्टव्यम्। अथ वायुनिर्गमनानन्तरमिदं प्रत्यक्षं शरीरं स्थूलदेहो भस्मान्तम् अभौ हुतं सत् भस्मरूपं भूयात्। ॐ हे ॐकाराभिधेयेश्वराभिन्न आदित्य क्रतो हे आदित्याभिन्नसङ्कल्पात्मन् हे यज्ञरूपेति वा स्मर त्वदुपासकं मां स्मर कृतं मयाऽनुष्ठितं ज्ञानं कर्म च स्मर स्पष्टम्। द्विरुक्तिरादरार्था॥१७॥
*१ पात्रसदृशेन