ॐ गुरुपरमात्मने नमः



ईशावास्योपनिषत् १६ – पूषन्नेकर्षे यम सूर्य

पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजः।
यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि॥१६॥

पुनरपि सूर्य्यं बहुधा संबोधयन् कार्यान्तरमाह –

हे पूषन्। सर्वस्य पोषक, एकर्षे एक एव ऋषति गच्छतीत्येकर्षिः तत्संबुद्धौ हे एकर्षे यम हे सर्वनियामक सूर्य हे सर्वकर्मसु लोकप्रवर्त्तक हे आकाशगमनेति वा प्राजापत्य हे प्रजापतेरपत्य रश्मीन् किरणान् व्यूह उपसंहर तेजः तापकज्योतिः समूह स्वस्मिन्नेकीभावङ्कुरु। तत्रापि प्रयोजनमाह – यदिति। यत् प्रसिद्धं ते तव रूपं स्वयंज्योतिःस्वभावं कल्याणतमं अतिशयेन कल्याणमानन्दात्मरूपं तत् उक्तरूपं ते तव प्रसादात् पश्यामि साक्षात्करोमि। न त्वहं भृत्यवदन्यः सन् त्वां याच इत्याह य इति। यः प्रसिद्धः असौ आदित्यमण्डलस्थः परोक्षः असौ शास्त्रदृष्ट्या प्रत्यक्षः पुरुषः सर्वत्र परिपूर्णः सः उक्तलक्षणः पुरुषः अहं अस्मत्प्रत्ययगोचरोऽस्मि भवामीत्यर्थः॥१६॥