ॐ गुरुपरमात्मने नमः



ईशावास्योपनिषत् १५ – हिरण्मयेन पात्रेण

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्।
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये॥१५॥

यः कार्यकारणात्मकः सूर्यमण्डलस्थः पुरुष एव “अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते” इत्युक्तसमुच्चयेन सम्प्राप्यो भवति तं प्रार्थयते –

हे पूषन्! जगतः पोषक, सत्यस्य बाधरहितस्य तव मुखं प्राप्तिद्वारभूतं हिरण्मयेन ज्वलत्सुवर्णवद्देदीप्यमानेन पात्रेण *१ पात्रसमेनापिधानरूपेण तेजोमण्डलेन अपिहितं आच्छादितं तद् मुखपिधायकतेजोमण्डलं त्वं सूर्यरूपस्त्वं अपावृणु अपसारय। सत्यधर्माय सत्यस्य तवोपासनात्सत्यं धर्मो यस्य मम सोऽहं सत्यधर्मा तस्मै मह्यं यद्वा सत्यधर्माय यथाभूतधर्मानुष्ठात्रे मह्यं मदर्थमपावृणु इति पूर्वेण सम्बन्धः। अपसारणप्रयोजनमाह – दृष्टये इति। तव दर्शनार्थमित्यर्थः॥१५॥

*१ - पात्रसदृशेन