ईशावास्योपनिषत् १४ – सम्भूतिं च विनाशं च
सम्भूतिं च विनाशं च यस्तद्वेदोभयꣳ सह।
विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते॥१४॥
उक्तोपासनद्वयस्यसमुच्चयार्थमाह –
सम्भूतिं चेत्यत्रासम्भूतिमित्यर्थलाभायाकारलोपो द्रष्टव्यः। विनाशं च विनाशधर्मकं हिरण्यगर्भरूपं कार्यमित्यर्थः। तथाच यः उपासकः असम्भूतिं च अव्याकृतोपासनां विनाशं च विनाशधर्मकहिरण्यगर्भस्योपासनं च तदुभयं *२ उक्तकारणकार्योपासनद्वयं सह मिलितं एकपुरुषकर्तृकं वेद जानाति ज्ञात्वा करोति च। स उपासकः विनाशेन विनाशवतः हिरण्यगर्भरूपकार्यस्योपासनेन मृत्युं अनैश्वर्याधर्मकामादिदोषजातं तीर्त्वा अतिक्रम्य असम्भूत्या अव्याकृतोपासनया अमृतं प्रकृतिलयरूपं अश्नुते प्राप्नोतीत्यर्थः॥१४॥