ॐ गुरुपरमात्मने नमः



ईशावास्योपनिषत् १३ – अन्यदेवाहुः सम्भवात्

अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात्।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे॥१३॥

इदानीमुक्तोपासनयोरुभयोः फलभेदमाह –

सम्भवात् कार्यरूपहिरण्यगर्भोपासनात् अन्यत् पृथगेव फलमणिमाद्यैश्वर्यप्राप्तिलक्षणं आहुः कथयन्ति। असम्भवात् अव्याकृतोपासनात् अन्यत् पृथगेव प्रकृतिलयलक्षणं फलमाहुः कथयन्ति। इति उक्तप्रकारकं वचनं धीराणां धीमतां वेदविदां शुश्रुम वयं श्रुतवन्तः। ते धीराः के इत्यत आह – य इति – ये गुरुवः नः अस्मभ्यं तत् उक्तोपासनद्वयं विचचक्षिरे व्याख्यातवन्तः॥१३॥