ईशावास्योपनिषत् १२ – अन्धं तमः प्रविशन्ति
अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते।
ततो भूय इव ते तमो य उ सम्भूत्याꣳ रताः॥१२॥
इदानीं व्याकृताव्याकृतोपासनयोः *१ समुच्चिचीर्षया प्रत्येकं तावन्निन्दति –
ये अज्ञाः असम्भूतिं अव्याकृताख्यां जगत्कारणभूतां प्रकृतिं उपासते जगत्कारणभूता प्रकृतिरहमिति निरन्तरं ध्यायन्ति ते अव्याकृतोपासकाः अन्धं तमः अहम्ममाभिमानरूपमदर्शनात्मकं संसारं वा प्रविशन्ति प्रामुवन्ति ये उ ये तु पुरुषाः सम्भूत्यां व्याकृते कार्यभूते हिरण्यगर्भे रताः प्रीतिमन्तः हिरण्यगर्भचिन्तनपरायणा इति यावत् ते हिरण्यगर्भोपासकाः ततः उक्तान्धतमसः भूय इव अधिकमेव तमः अहम्ममाभिमानलक्षणमदर्शनात्मकं संसारं वा प्रविशन्तीत्यनुषङ्गः॥१२॥
*१ - समुच्चेतुमिच्छया।