ॐ गुरुपरमात्मने नमः



ईशावास्योपनिषत् ११ – विद्यां चाविद्यां च

विद्यां चाविद्यां च यस्तद्वेदोभयꣳ सह।
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते॥११॥

एवं विद्याकर्मणोः सफलत्वमभिधाय इदानीं तयोः समुच्चयमाह –

यः अधिकारी विद्यां च देवतोपासनं च अविद्यां च अग्निहोत्रादिकर्म च तदुभयं उक्तविद्याकर्मरूपद्वयं सह मिलितं एकपुरुषानुष्ठेयं वेद जानाति, ज्ञात्वा करोति च। सः पुरुषः अविद्यया उक्तकर्मणा मृत्युं स्वाभाविकं कर्माज्ञानात्मकं तीर्त्वा अतिक्रम्य विद्यया देवतोपासनेन अमृतं उपास्यदेवतास्वरूपं अश्नुते प्राप्नोति॥११॥