ॐ गुरुपरमात्मने नमः



ईशावास्योपनिषत् १० – अन्यदेवाहुर्विद्यया

अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे॥१०॥

ननूभयोः प्रत्येकं निन्दया किमुभयोः फलं नास्तीत्याशङ्क्य तयोः फलभेदमाह –

विद्यया देवतोपासनेन अन्यत् पितृयाणप्राप्यलक्षणात् कर्मफलात् पृथगेव देवयानप्राप्यलक्षणं फलं आहुः कथयन्ति। एवकारेण विद्याकर्मणोरङ्गाङ्गिभावो व्यावर्त्यते। अविद्यया कर्मणा अन्यत् *२ विद्याफलाद्देवलोकप्राप्तिलक्षणात् पृथग्भूतं पितृलोकप्राप्तिरूपं फलं आहुः कथयन्ति। *३ अत्रैवकाराभावाच्चित्तशुद्धिद्वारा ऽऽत्मज्ञानोत्पादकत्वमपि कर्मणामवगम्यते। इति उक्तप्रकारकं धीराणां धीमतां वेदविदां वचनं शुश्रुम वयं श्रुतवन्तः। के ते धीरा इत्यत आह – य इति। ये गुरवः नः अस्मभ्यं तत् कर्मोपासनं च विचचक्षिरे व्याख्यातवन्तः॥१०॥

*२ - ‘विद्यया देवलोकः कर्मणा पितृलोकः’ इति श्रुतेः।

*३ - अविद्ययैवकाराभावात्।