ॐ गुरुपरमात्मने नमः



ईशावास्योपनिषत् ९ – अन्धं तमः प्रविशन्ति

अन्धं तमः प्रविशन्ति येऽविद्यामुपासते।
ततो भूय इव ते तमो य उ विद्यायाꣳ रताः॥९॥

समाप्तं ज्ञानप्रकरणं इदानीं *३ यस्तूक्तमात्मत्तत्वं न जानाति, न च संन्यासेऽधिकारी, संसारेऽत्यन्तं प्रीतिमान्, तं प्रति कुर्वन्नेवेह कर्माणीत्यादिनोक्तस्य कर्मणो देवतोपासनायाश्च समुच्चयं *४ विधित्सुः तयोरेकैकं निन्दति –

*३ - साध्यसाधनादीन्यादिना इतिकर्तव्यतादिग्रहणम्।

*४ - विधातुमिच्छुः।

ये अविद्वांसो धनाभिलाषिणः अविद्यां विद्याया भिन्ना अविद्या ज्योतिष्टोमादिलक्षणं केवलं कर्म उपासते अनन्यचित्ताः सन्तः अनुतिष्ठन्ति, ते अन्धं तमः अहंममाभिमानलक्षणमदर्शनात्मकं तमः संसारमिति वा प्रविशन्ति प्रकर्षेण प्राप्नुवन्ति। ननु – कर्म परित्यज्य किं देवता तैरुपासितव्या स्यादित्यत आह – तत इति। ये उ ये तु अज्ञाः कर्मत्यागिनः विद्यायां उपास्यदेवोऽहमिति देवतोपासने रताः तत्पराः ते देवतोपासकाः ततः *१ उक्ततमसः भूय इव अधिकमेव तमः अहंममाभिमानलक्षणमदर्शनात्मकं संसारमिति वा तत्तद्देवैश्वर्यप्राप्तेरधिकाऽऽसक्तिहेतुत्वात् प्रविशन्तीत्यनुषङ्गः ॥ ९ ॥

*१ - अन्धात्मकं तमसः।