ईशावास्योपनिषत् ८ – स पर्यगाच्छुक्रम्
स पर्यगाच्छुक्रमकायमव्रणमस्नाविरꣳ शुद्धमपापविद्धम्।
कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः॥८॥
ईश्वरस्य स्वरूपमिदं सर्वमहमस्मीति विजानतः आवरणविक्षेपयोरभाव उक्तः सोऽयमनुपपन्नः ईश्वरस्याप्यात्मत्वात् जीववच्छरीरादिसम्बन्धसत्त्वादित्याशङ्क्य दृष्टान्ते साध्यवैकल्यमाह –
स ईश्वरस्वरूपाभिन्नः आत्मा पर्यगात् परितः समन्तात् सर्वं व्याप्तवान्। तं विशिनष्टि – शुक्रमिति। शुक्रमित्याद्यपापविद्धमित्यन्तानि विशेषणानि पुंस्त्वेन विपरिणेयानि, स इति पुंस्त्वेनोपक्रम्य कविरित्यादि पुंस्त्वेनोपसंहारात्। शुक्रं दीप्तिमान्। अकायं लिङ्गशरीररहितः। अव्रणं व्रणं छिद्रविशेषो न विद्यते यस्य सोऽव्रणः। अस्नाविरं स्नावाः शिरास्तद्वर्जितः। अव्रणमस्नाविरमिति विशेषणाभ्यां श्रुत्या स्थूलदेहस्य प्रतिषेधः कृतः। शुद्धं अविद्यामलरहितः। अनेन कारणशरीरप्रतिषेधः कृतः। अपापविद्धं *१ धर्माधर्मादिपापशून्यः। कविः सर्वद्रष्टा। मनीषी मनस ईषिता। परिभूः नानारूपैः परितः समन्ताद्भवतीति परिभूः। स्वयम्भूः स्वयमेव भवतीति स्वयम्भूः कारणरहित इति यावत्। शाश्वतीभ्यः निरन्तरेभ्यः समाभ्यः संवत्सराख्येभ्यः प्रजापतिभ्यः सकाशात् याथातथ्यतः *२ साध्यसाधनादिनियतस्वरूपेण अर्थान् चेतनाचेतनरूपपदार्थान् व्यदधात् विविधं कल्पितवानित्यर्थः॥८॥
*१ - धर्माधर्मजनकग्रहणम् आदि।
*२ - ईश्वरात्मतत्त्वम्।