ॐ गुरुपरमात्मने नमः



ईशावास्योपनिषत् ७ – यस्मिन् सर्वाणि भूतानि

यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानतः।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः॥७॥

उक्तमेवार्थं पुनरप्याह –

यस्मिन् काले ईश्वरस्वरूपे आत्मनीति वा विजानतः उक्ताभेदज्ञानवतः पुरुषस्य सर्वाणि भूतानि ब्रह्मादिस्तम्बपर्यन्तानि प्राणिजातानि आत्मैवाभूत् सर्वभूतात्मा ऽहमेवेति बोधेनात्मभावमेव गतानि स्युरित्यर्थः। तत्र तस्मिन् काले ईश्वरात्मविज्ञातृस्वरूपे इति वा। एकत्वमनुपश्यतः सर्वत्रैकात्मज्ञानवतः पुरुषस्य को मोहः आत्मावरणलक्षणो मोहः, कः शोकः विक्षेपात्मकः शोकः कः। किंशब्द आक्षेपे। तस्य मोहशोकौ न भवतः। मूलाविद्यानिवृत्तौ तत्कार्ययोः शोकमोहयोरात्यन्तिकाभावादिति भावः॥७॥