ईशावास्योपनिषत् ६ – यस्तु सर्वाणि भूतानि
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते॥६॥
ईश्वरात्मज्ञानस्य फलमाह –
यस्तु, तुशब्दो एवार्थकः, य एव विद्वान्, सर्वाणि ब्रह्मादिस्तम्बपर्यन्तानि भूतानि प्राणिजातानि आत्मन्येव – एवकारो भेदव्यावृत्त्यर्थः – आत्मस्वरूपे परमेश्वरे एव अनुपश्यति साक्षाद्विजानाति। सर्वभूतेषु उक्तप्राणिजातेषु चात्मानं ‘अहमेव सर्वभूतेष्वस्थितः’ इत्यनुपश्यतीति क्रियानुवृत्त्यर्थश्चकारः। ततः उक्ताभेदज्ञानानन्तरं न विजुगुप्सते उक्तो विद्वान् किमपि न निन्दति। स्वात्मनोऽन्यस्यादर्शनात्। कस्यापि निन्दास्तुतिं न करोतीति भावः॥६॥