ॐ गुरुपरमात्मने नमः



ईशावास्योपनिषत् ५ – तदेजति तन्नैजति

तदेजति तन्नैजति तद्दूरे तद्वन्तिके।
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः॥५॥

मन्त्राणामालस्याभावादुक्तमेवार्थं पुनराह –

तत् ईश्वररूपमात्मतत्त्वं एजति वाय्वादिरूपेण चलति। तत् ईश्वररूपमात्मतत्त्वं नैजति स्वतो नैव चलति, अक्रियत्वात्। तत् ईश्वररूपमात्मतत्त्वं दूरे अविदुषामत्यन्तदूरे वर्तते, अज्ञातत्वात्, वर्ष कोटिशतैरप्यविदुषामप्राप्यत्वाद्वा। तत् ईश्वररूपमात्मतत्त्वं उ एव। अन्तिके विदुषामत्यन्तसमीपमेव, प्रत्यग्रूपेण ज्ञातत्वात्। तत् ईश्वररूपमात्मतत्त्वं अस्य दृश्यस्य सर्वस्य चराचररूपस्य अन्तः आभ्यन्तरम्। तत् ईश्वररूपमात्मतत्त्वं अपि सर्वस्य निखिलस्य अस्य *१ नानाप्रतीतिविषयस्य जगतः बाह्यतः बहिश्च भवति। आकाशवद्व्यापकत्वादित्यर्थः॥५॥

*१ - प्रियत्वाप्रियत्वादिप्रकारकाप्रतीतिरित्यर्थः।