ॐ गुरुपरमात्मने नमः



ईशावास्योपनिषत् ४ – अनेजदेकं मनसो जवीयः

अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत्।
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति॥४॥

यस्यात्मनोऽज्ञानादविद्वांसः संसरन्ति आत्मज्ञाश्च मुच्यन्ते तदात्मतत्त्वं कीदृशमित्याकाङ्क्षायां तदात्मतत्त्वमाह –

अनेजत् चलनरहितम्। एकं देहादिभेदेन भेदशून्यं मनसः संकल्पादिलक्षणमनसः जवीयो वेगवत्तरम्। ननु मनसा साक्षादप्राप्याणामपि रूपादीनां चक्षुरादिभिः प्राप्यत्वदर्शनादात्मतत्त्वमपि चक्षुरादिप्राप्यमस्तीत्यत आह – नेति। एनत् प्रकृतमात्मतत्त्वं देवाः द्योतनाद्देवाश्चक्षुरादीन्द्रियाणि नाप्नुवन् नाधिगतवन्तः। यथा मनसि स्थितं परिमाणं मनसा न गृह्यते यथा वा चक्षुषो गोलके वर्त्तमानमञ्जनं चक्षुषा न गृह्यते अत्यन्तसान्निध्यात्, तथाऽऽत्मतत्त्वमपि मनआदिष्वनुगतत्वात् न मनश्चक्षुरादिभिर्गृह्यते इति भावः। मनसा चक्षुरादीन्द्रियैश्चाप्राप्यत्वेनासत्त्वशङ्कां प्राप्तां वारयति पूर्वमिति। पूर्वं मनआदेः प्राप्तेः प्रथममेव अर्षत् प्राप्तं व्यापकमिति यावत्। व्यापकत्वे हेतुमाह – तद्धावत इति। तत् आत्मतत्त्वं धावतः द्रुतं गच्छतः अन्यान् कालवाय्वादीन् अत्येति उल्लङ्घ्य याति, तर्ह्येष्वेव किञ्चिदतिवेगवदित्यत आह तिष्ठत् स्वयमविक्रियमेव सत् स्थितमित्यर्थः। उक्तात्मतत्त्वस्य सम्भावनायोपपत्तिमाह – तस्मिन्निति तस्मिन् आत्मतत्त्वे सति मातरिश्वा मातरि अन्तरिक्षे श्वयति गच्छति सत्तां प्राप्नोतीति मातरिश्वा ज्ञानक्रियाशक्तिर्हिरण्यगर्भः अपः कर्माणि अग्निहोत्रादीनि श्रौतकर्माणि सोमाज्यपयःप्रभृतिभिरद्भिः सम्पाद्यन्ते इति सम्बन्धाल्लक्षणयाऽप्शब्दस्य कर्मसु प्रयोगः। यद्वा अपः कर्माणि प्राणिनां चेष्टालक्षणानि अग्न्यादित्यादीनां ज्वलनवहनप्रकाशाभिवर्षणादिलक्षणानि च दधाति कर्तृषु विभागेन स्थापयति, धारयतीति वा। मातरिश्वग्रहणं व्यष्टीनामुपलक्षणार्थं सर्वकार्य्यकरणसङ्घातानामधिष्ठातारं विना नियतप्रवृत्त्यनुपपत्त्या कश्चिदधिष्ठाता चेतनः सिद्ध्यतीति भावः॥४॥