कैवल्योपनिषत् २३
अणोरणीयानहमेव तन्द्वन्महानहं विश्वमिदं विचित्रम्।
पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि॥२३॥
दीपिका
ब्रह्मणो जगज्जन्मस्थितिध्वंसकारणत्वाज्जगदाकारत्वेन विकारित्वं प्राप्तं तदेतदतिदुर्बोधस्वरूपत्वेन वारयति –
अणोरणुपरिमाणादणीयानतिशयेनाणुः जगत्कारणभूतो ऽहमेव अहंप्रत्ययव्यवहारयोग्यो न त्वन्यः। तद्वत् यथाणुस्तथा महान् सर्वस्मादधिकः अहं व्याख्यातम्। अणीयसां महतां कारणानां च यथा भेदः तथा वापि स्यादित्यत आह। विश्वमिदं साविद्यं भूतभौतिकप्रपञ्चजातमहं व्याख्यातम्। अस्य जगतस्तत्त्वाद्भेदराहित्ये स्वस्मादप्यभेदः स्यादित्यत आह। विचित्रं विविधं स्वयमनन्तभेदवदित्यर्थः। तदभिन्नस्य तस्य तवाप्याधुनिकत्वं स्यादित्यत आह। पुरातनश्चिरन्तनः आधुनिकसर्पधाराबलीवर्दसूत्रितत्वाद्यभिन्ना चिरन्तनी रज्जुरिवाहं व्याख्यातम्। पुरुषः परिपूर्णो वस्तुतोऽहं व्याख्यातमविद्यादशायामीशः नियन्ता। नियन्तृत्वे सामर्थ्यमाह हिरण्मयः ज्ञानप्रचुरः तत्प्रधानो वाऽऽदित्यस्थः सर्वकार्यकारणात्माहं व्याख्यातम्। शिवरूपं मङ्गलस्वरूपं ब्रह्मास्मि भवामि॥२३॥