कठोपनिषत् १.० – सह नाववतु
ॐ तत्सद्ब्रह्मणे नमः।
अथ कठोपनिषत्॥
ब्रह्मविद्यागुरून्नत्वा मन्त्रदांश्च गुरूंस्तथा।
कठोपनिषदो वल्लयो व्याख्यायन्ते समासतः॥१॥
कठेन मुनिना चादौ स्वशिष्यान् प्रति कीर्तिता। तेन काठकनाम्नाऽसौ प्रथितेयं यजुःश्रुतिः॥२॥
ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै।
तेजस्विनावधीतमस्तु मा विद्विषावहै॥
ॐ शान्तिः शान्तिः शान्तिः॥
सः परमेश्वरः ह निश्चयेन नौ आवां शिष्याचार्यौ अवतु विद्यास्वरूपप्रकाशनेन पालयतु। स ह नौ भुनक्तु तत्फलप्रकाशनेन पालयतु। सह सहैव नौ आवां वीर्यं विद्याकृतं सामर्थ्यं करवावहै निष्पादयावहै – नौ आवाभ्यां अधीतं पठितं तेजस्वि वीर्यवद् अस्तु भवतु। मा विद्विषावहै परस्परं द्वेषं मा करवावहा इत्यर्थः। ॐ शान्तिः ३ इति त्रिर्वचनं सर्वदोषापशमनार्थम्॥
अथ यजुर्वेदीय काठकोपनिषच्छब्देन ब्रह्मविद्योच्यते। ब्रह्मविद्यार्थत्वाद् ग्रन्थोप्युपनिषदित्युच्यते। प्रत्यग्भूतं ब्रह्म तस्य विषयः। प्रयोजनं मुक्तिः। ग्रन्थस्य विषयेण सह प्रतिपाद्यप्रतिपादकरूपः सम्बंधः। साधनचतुष्टयसंपन्नोऽधिकारीत्यनुबन्धचतुष्टयं प्रेक्षावतां प्रवृत्त्यङ्गभूतं तावत्सिद्धम्।
एवमुपनिषच्छब्देनोक्ताया ब्रह्मविद्यायाः स्तुत्यर्थं प्रतिपत्तिसौकर्याय चाख्यायिकारूपमितिहासमाह –