कठोपनिषत् १.१ – उशन् ह वै
उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ तस्य ह नचिकेता नाम पुत्र आस तꣳ ह कुमारꣳ सन्तं दक्षिणासु नीयमानासु श्रद्धाऽऽविवेश॥१॥
उ॒शन् ह॒ वै वा॑जश्रव॒सः स॑र्ववेद॒सं द॑दौ। तस्य॑ ह॒ नचि॑केता॒ नाम॑ पु॒त्र आ॑स। तꣳ ह॑ कुमा॒रꣳ सन्त॑॑म्। दक्षि॑णासु नी॒यमा॑नासु श्र॒द्धाऽऽवि॑वेश॥तै॰ब्रा॰३.११.८॥
वश कान्तावित्यस्य शत्रन्तं रूपं उशन्। ह वै इति निपातौ वृत्तार्थस्मरणार्थौ। वाजश्रवसः वाजमन्नं तद्दाननिमित्तं श्रवो यशो यस्य स वाजश्रवाः, तस्यापत्यं वाजश्रवसः उद्दालकनामा। उशन् क्रतुफलमिच्छन् विश्वजिता यागेन ईजे इति शेषः। स च तस्मिन् क्रतौ सर्ववेदसम्। सर्वस्वं धनं अतिबाले स्वपुत्रे स्नेहवशात् शोभना गाः पुत्रघनत्वेन कल्पयित्वा, वृद्धा गाः स्वधनत्वेन मत्वा वृद्धगोलक्षणं स्वधनं क्रत्वङ्गदक्षिणारूपं ददौ दत्तवानित्यर्थः। तस्य वाजश्रवसस्य ह प्रसिद्धः नचिकेता नाम पुत्रः नचिकेतसंज्ञकः पुत्रः आस बभूव। तं नचिकेतसं कुमारं पाञ्चवार्षिकं सन्तं धीमन्तं श्रद्धा वेदोक्तयज्ञवैगुण्येनानिष्टप्राप्तिबोधकवाक्येषु यथार्थत्वबुद्धिः आविवेश पितुरनिष्ठनिवृत्त्यर्थं हृदि जाता। कस्मिन् काले इत्याकाङ्क्षायामाह – दक्षिणास्विति। दक्षिणासु दक्षिणार्थासु गोषु नीयमानासु ऋत्विग्भ्यः प्रविभागेन दीयमानासु।
गोदानविभागस्त्वेवं बोध्यः। होत्रध्वर्युब्रह्मोद्गातार इति चत्वारो मुख्यर्त्विजोऽष्टचत्वारिंशद्गोभाजो भवन्ति। प्रशास्तृप्रतिप्रस्थातृब्राह्मणाच्छंसिप्रस्तोतार इति चत्वार ऋत्विजो मुख्यर्त्विग्गृहीतदक्षिणाया अर्धग्राहिणो भवन्ति। अच्छावाङ्नेष्ट्राऽऽग्नीध्रप्रतिहर्तार इति चत्वार ऋत्विजो मुख्यर्त्विग्गृहीतदक्षिणायाः तृतीयांशं लभन्ते। ग्रावस्तुन्नेत्तृपोतृसुब्रह्मण्या इति चत्वार ऋत्विजो मुख्यर्त्विग्गृहीतदक्षिणायाः चतुर्थांशं लभन्ते इति॥१॥