ॐ गुरुपरमात्मने नमः



कठोपनिषत् १.२ – सोऽमन्यत पीतोदकाः

सोऽमन्यत पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः।
अनन्दा नाम ते लोकास्तान् स गच्छति ता ददत्॥२॥

सः नचिकेताः अमन्यत विचारितवान्। कथमित्यत आह – पीतोदका इत्यादिना पीतमुदकं प्रागेव नाधुना पातुं शक्यं याभिस्ताः पीतोदकाः। जग्धं भक्षितं तृणं प्रागेव नाधुना भक्षितुं शक्यं याभिस्ता जग्धतृणाःदुग्धदोहाः प्रागेव दुग्धो दोहः पयो यासां तास्तथा। निरिन्द्रियाः गर्भधारणशक्तिशून्याः अतिजीर्णा इत्यर्थः। अनन्दा नाम असुखसंज्ञकाः ते लोकाः। ये लोकाः यः पुरुषः ताः पीतोदकादिविशेषणा गाः ददत् दक्षिणाबुद्ध्या प्रयच्छन् सः यजमानः तान् असुखसंज्ञकान् लोकान् गच्छति यातीति योजना॥२॥