ॐ गुरुपरमात्मने नमः



कठोपनिषत् १.३ – स होवाच पितरम्

एवं क्रतुवैगुण्यनिमित्तकं पितुरनिष्टफलमालोच्य मया पुत्रेणात्मदानेनापि पितुः क्रतुवैगुण्यं वारणीयमिति मत्वाऽऽह –

स होवाच पितरं तत कस्मै मां दास्यसीति वितीयं तृतीयं तꣳ होवाच मृत्यवे त्वा ददामीति॥३॥

नचिकेताः किल पितरं उद्दालकं उवाच उक्तवान्। तदेव दर्शयति – ततेति। तत हे तात कस्मै ऋत्विजे मां दास्यसि दक्षिणार्थं प्रयच्छसि इति एवं द्वितीयं तृतीयं द्वित्रिवारमुवाच। पुत्रस्याभिप्रायमज्ञात्वा क्रुद्धः सन् पिता तं पुत्रं किल उवाच। पितृवचनमभिनयति – मृत्यवे इति। मृत्यवे यमाय त्वा त्वां ददामीति॥३॥