कठोपनिषत् १.४ – बहूनामेमि प्रथमः
एवं पितृवचनं श्रुत्वा नचिकेता रहसि चिन्तयामासेत्याह –
बहूनामेमि प्रथमो बहूनामेमि मध्यमः।
किꣳस्विद्यमस्य कर्तव्यं यन्मयाद्य करिष्यतीति॥४॥
बहूनां शिष्याणां पुत्राणां वा मध्ये प्रथमो मुख्यः सन् एमि आज्ञां विना गुरुशुश्रूषणे प्रवृत्तिरूपया मुख्यया वृत्त्या संपन्नोऽस्मि। बहूनां शिष्यादीनां मध्ये एमि मध्यमः आज्ञावशेन गुरुपरिचर्यारूपया मध्यमया वृत्त्या संपन्नोऽस्मि नत्वधमया गुर्वाज्ञाऽपरिपालनरूपयैमि। अतो गुणवतः पुत्रस्य मम त्यागोऽयुक्त इति भावः। किञ्च मद्गमनेन यमस्य अपि कश्चिदुपकारो नास्तीत्याह – किंस्विदिति। वितर्के किं तदिष्टं पित्रा कर्तव्यं अस्ति यत् पिता मया दत्तेन अद्य अधुना करिष्यति। न किमपि। अतो गुणवन्तं मां वृथा त्यजतीत्यर्थः॥४॥