कठोपनिषत् १.५ – अनुपश्य यथा पूर्वे
गुणवान् पुत्रो वृथा क्रोधवशान्मया दत्त इति शोकयुक्तं पितरमालक्ष्य पितुरनिष्टजनकं मृषावचनं माभूदिति हितकामनया नचिकेता आह –
अनुपश्य यथा पूर्वे प्रतिपश्य तथापरे।
सस्यमिव मर्त्यः पच्यते सस्यमिव जायते पुनः॥५॥
हे तात यथा येन प्रकारेण पूर्वे तव पितृपितामहादयो वृत्ताः। यथा च अपरे साधवः शिबिदशरथादयो वृत्ताः तथा तांश्च प्रत्यनुपश्य त्वमवलोकय। तेषां मिथ्यायजनवर्जनरूपं व्रतमास्थातुमर्हसीत्यर्थः। नहि मृषा कृत्वा कश्चिदजरोऽमरो वा भवति। येन मृषा क्रिया सफला स्यादित्याह – सस्यमिति। सस्यमिव व्रीहियवादिवत् मर्त्यो मरणधर्मप्राणिनिकायः पच्यते। कालरूपसूर्येण विनाशोन्मुखीक्रियते जीर्णो म्रियते इति यावत्। मृत्वा च सस्यमिव पुनः जायते प्रादुर्भवति। एवं जन्ममरणस्यावश्यंभावित्वान्मां यमाय दत्त्वा स्ववचनं सत्यं कुर्विति भावः॥५॥