ॐ गुरुपरमात्मने नमः



कठोपनिषत् १.६ – वैश्वानरः प्रविशति

एवमुक्तेन पित्रा प्रेषितो नचिकेताः पितृभक्त्यादिप्रभावात् सशरीरो यमालयं गत्वा यमं च देशान्तरगतं श्रुत्वा पितृदत्तं मां यमो गृह्णीयादित्येतन्निमित्तं दिनत्रयं तत्रोपवासं कृतवान्। ततो देशान्तरादागतं यमं तदीया मन्त्रिण ऊचुरित्याह –

वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान्
तस्यैतां शान्तिं कुर्वन्ति हर वैवस्वतोदकम्॥६॥

विवस्वतः सूर्यस्यापत्यं वैवस्वतः हे वैवस्वत यम। अतिथिर्ब्राह्मणो वैश्वानरो ऽग्निः सन् गृहान् प्रविशतितस्य अतिथेः एतां पाद्यासनादिरूपां शान्तिं कुर्वन्ति शिष्टजनाः। अतस्त्वमपि नचिकेतसे पादप्रक्षालनार्थं उदकं जलं हर आहर आनयेत्यर्थः॥६॥