कठोपनिषत् १.७ – आशाप्रतीक्षे संगतम्
यथा शान्तिमनीतोऽग्निः सपरिकरं गृहं दहत्येवमनर्चितोऽतिथिः सर्वं दहतीत्याह –
आशाप्रतीक्षे संगतꣳ सूनृतां चेष्टापूर्ते पुत्रपशूꣳश्च सर्वान्।
एतद्वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन् वसतिब्राह्मणो गृहे॥७॥
अप्रत्यक्षेष्टार्थस्येच्छा आशा, निश्चितसुखेच्छा प्रतीक्षा, ते आशाप्रतीक्षे। संगतं देवताध्यानफलम्। सूनृतां प्रियवाणीं तज्जन्म फलम्। इष्टापूर्ते इष्टमग्निष्टोमादियागः, पूर्तं वापीकूपतडागादेर्निमाणं, तयोः फलम्। पुत्रपशूंश्च पुत्रानौरसान् पशून् सल्लक्षणान्। एतत् आशादिरूपं सर्वान् सर्वं वृङ्क्ते नाशयति अतिथिः ब्राह्मणो यस्य अल्पमेधसः तुच्छबुद्धेः पुरुषस्य गृहे ऽनश्नन् वसति। तस्मात् सर्वदाऽतिथिः पूजनीय इति भावः॥७॥