कठोपनिषत् १.८ – तिस्रो रात्रीः
स्वमन्त्रिभिरेवमुक्तो यमो नचिकेतसमाह –
तिस्रो रात्रीयर्दावात्सीगृहे मेऽनश्नन् ब्रह्मन्नतिथिर्नमस्यः।
नमस्तेऽस्तु ब्रह्मन् स्वस्ति मेऽस्तु
तस्मात् प्रति त्रीन् वरान् वृणीष्व॥८॥
हे ब्रह्मन् यत् यस्मात् अतिथिर्नमस्यः। नमस्कारार्होऽतिथिस्त्वं अनश्नन् अभुञ्जानः सन् मे मम गृहे तिस्रो रात्रीः अवात्सीः उषितवानसि, तस्मात् तद्दोषशान्त्यर्थं प्रति त्रीन् रात्रिप्रतिरूपान् रात्रिसमसंख्यान् त्रीन् वरान् स्वाभिलषितपदार्थान् वृणीष्व मत्तः प्रार्थयस्व। किञ्च हे ब्रह्मन् ते तुभ्यं नमोऽस्तु मे मम स्वस्ति भद्रं अस्तु इति॥८॥