कठोपनिषत् १.९ – शान्तसंकल्पः सुमनाः
एवं यमेनोक्तो नचिकेता आह –
शान्तसंकल्पः सुमना यथा स्याद् वीतमन्युर्गौतमो माभिमृत्यो।
त्वत्प्रसृष्टं माभिवदेत्प्रतीत एतत् त्रयाणां प्रथमं वरं वृणे॥९॥
हे मृत्यो गौतमो मम पिता मा अभि मां प्रति शान्तसङ्कल्पः शान्तो निवृत्तः सङ्कल्पो – यमं प्राप्य मम पुत्रस्य कीदृशी दशा भविष्यतीत्येवंरूपा चिन्ता यस्य सः। सुमनाः प्रसन्नमनाश्च यथा येन प्रकारेण स्यात् वीतमन्युः। कस्मै मां दास्यसीति द्वित्रिवारोक्तिजन्यक्रोधरहितश्च यथा स्यात्। किञ्च त्वत्प्रसृष्टं गृहं प्रति प्रेषितं मा अभि मां प्रति प्रतीतः – स एव मम पुत्र आगत इति लब्धस्मृतिः सन् वदेत् पूर्ववत् सम्भाषेत। न तु प्रेतोऽयं यमालयादागत इति मत्वोपेक्षेत। त्रयाणां त्रिसंख्याकवराणां मध्ये एतत् पितृप्रसादरूपं प्रथमं वरं वृणे प्रार्थये॥९॥