ॐ गुरुपरमात्मने नमः



कठोपनिषत् १.१० – यथापुरस्तात् भविता

एवं नचिकेतसोक्तो यम आह –

यथापुरस्ताद् भविता प्रतीत औद्दालकिरारुणिर्मत्प्रसृष्टः।
सुखꣳ रात्रीः शयिता वीतमन्युस्त्वा ददृशिवान् मृत्युमुखात् प्रमुक्तम्॥१०॥

औद्दालकिः उद्दालक एवौद्दालकिः स्वार्थेऽत्रेञ्प्रत्ययः। अरुणस्यापत्यं आरुणिः। तव पिता मत्प्रसृष्टः मयाऽनुज्ञातः। यथापुरस्तात् यथापूर्वं त्वयि स्नेहयुक्त आसीत्, तथा भविता भविष्यति। प्रतीतः अयं मत्पुत्र आगत इति विश्वासवान् भविता भविष्यति। रात्रीः रात्रिषु सुखं यथास्यात् तथा शयिता सुखविशिष्टाभिन्नशयनवान् भविष्यतीत्यर्थः। मृत्युमुखात् मत्तः सकाशात् प्रमुक्तं निर्गतं त्वा त्वां ददृशिवान् दृष्टवान् सन् वीतमन्युः विगतक्रोधश्च भविता भविष्यतीति योजना॥१०॥