- १-११ वस्तुनिर्देशरूपमङ्गलाचरणम्
- १-११ स्वप्रत्यगात्मविषयकमङ्गलाचरणविषये आक्षेपसमाधानानि
आवर्तः ४ – प्रथम आक्षेपः
ननु हरिहरब्रह्मादिषूपास्येषु सत्सु तत्स्मरणात्मकमङ्गलाचरणं विहाय स्वात्मस्मरणरूपं मङ्गलं किमिति युक्तं कर्तुमिति चेत्।
Objection – when there are upāsya devatās like hari, hara, brahmā etc, why overlook their smaraṇam as maṅgalācaraṇa and instead do the smaraṇa of one’s own ātma as maṅgalam. Is it appropriate?
आवर्तः ५ – समाधानम्
उच्यते – मय्यखण्डचिदम्भोधौ हरिहरब्रह्मार्केन्द्रचन्द्रवरुणयमशक्तिकुबेरगणपत्याद्युपलक्षिताः सर्वेऽपि देवास्तरङ्गायन्ते। अतो मयि सर्वप्रपञ्चाधिष्ठाने जगत्कारणे स्मृते मत्कार्यभूतास्ते सर्वेऽपि देवाः स्मृता एव भवन्ति। तस्मात् स्वविषयकं मङ्गलाचरणमेव युक्तम्।
In the akhaṇḍa ocean of cit in myself, all the devas (hari, hara etc) are waves. Thus, when the jagat kāraṇa, which is the adhiṣṭhāna for the entire prapañca is remembered, all the devas are remembered. Thus, maṅgalācaraṇam with oneself as the viṣaya is appropriate.