ॐ गुरुपरमात्मने नमः

- १-३९ प्रथमतरङ्गः -- अनुबन्धानां सामान्यतो निरूपणम्
- १-११ वस्तुनिर्देशरूपमङ्गलाचरणम्
- ४-११ स्वप्रत्यगात्मविषयकमङ्गलाचरणविषये आक्षेपसमाधानानि


आवर्तः ८ – तृतीय आक्षेपः

ननु शुद्धे ब्रह्मणीश्वरः कल्पित इति शक्यते वक्तुं, न तु सुतरां त्वयि परिच्छिन्ने। अतो निगुर्णब्रह्मस्मरणेनैव कृतानि भवन्तीतरसकलदेवतामङ्गलानि, न तु त्वत्स्मरणादिति चेत् –

īśvara is kalpita in shuddha brahma, not in the limited you. Thus, it is nirguṇa brahma that should be contemplated, and not you.

आवर्तः ९ – समाधानम्

उच्यते – यथा अधिष्ठानभूतरज्ज्वाद्यज्ञानात् सर्पादिभ्रमः, तदधिष्ठानयाथात्म्यज्ञानेन तन्निवृत्तिश्च, तथा सकलजगदधिष्ठानप्रत्यगेकरसब्रह्माज्ञानात् जगत् प्रतीयते, तदापरोक्ष्येण निःशेषं निवर्तते च। तच्चाधिष्ठानं ब्रह्म प्रत्यगात्मा अहं एव

Just as ajñāna of thie rope which is the adhiṣṭhāna leads to sarpa bhrama, and right knowledge of the adhiṣṭhāna removes the bhrama; so also ajñāna of pragtag-ekarasa brahma leads to jagat pratīti, and aparokṣa jñāna of the adhiṣṭhāna removes it. I am that adhiṣṭhāna brahma, the pratyagātma.

“अयमात्मा हि ब्रह्मैव सर्वात्मकतया स्थितः।
इति निर्धारितं श्रुत्या बृहदारण्यसंस्थया॥”

“यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह।
यच्चास्य सन्ततो भावस्तस्मादात्मेति गीयते॥”

“तत्त्वमसि” (छा. 6.8.7), “त्वं तदसि।”

“यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत्।”

“सूक्ष्मात्सूक्ष्मतरं नित्यं तत् त्वमेव त्वमेव तत्।” (कै. 16)

“एकमाद्यन्तरहितं चिन्मात्रममलं ततम्।
खादप्यतितरां सूक्ष्मं तद्ब्रह्मासि न संशयः॥” (अन्न. 5.65)”

“अनेन सर्वं ह्येतद्वेद।”

“तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात् प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा।
स योऽन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात् प्रियं रोत्स्यतीतीश्वरो ह तथैव स्यात्।
आत्मानमेव प्रियमुपासीत।” (बृ. 1.4.8),

“आत्मा ह्येषां स भवति।” (बृ. 1.4.10),

“यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः।” (बृ. 3.4.1)

इत्यादिश्रुतिभ्यः।

“एव” इत्यवधारणेनांशांशित्वविकारविकारित्वोपास्योपासकत्वादिद्वित्वनिबन्धनो भेदः सुतरां प्रत्यगेकरसस्य मम, चिन्मात्रस्य ब्रह्मणश्च नास्तीति सिद्ध्यति। एतेन कारणाधीनत्वरूपकार्यत्वं प्रकाशाधीनत्वरूपप्रकाश्यत्वं अधिष्ठानाधीनत्वरूपाधेय(रोपित)त्वं चेत्येतत्त्रिविधपारतन्त्र्यं मम न संभवतीति सूच्यते। तस्माच्चिन्मात्रप्रत्यग्रूपस्य मम मङ्गलमेव शुद्धब्रह्मविषयकं मङ्गलं भवति।

The word ‘eva’ indicates that all bhedas including aṁśa-aṁśi, vikāra-vikāri, upāsya-upāsaka etc do not apply to pratyagātma that is me, or cinmātra brahma. Thus, I am not subject to the limitations (pāratantrya) of kāryatva from another kāraṇa, prākāśyatva by another prakāśaka or āropitatva on another adhiṣṭhāna. Thus, maṅgala on me that is cin-mātra-pratyagātma is mañgala on śuddha brahma itself.