- १-११ वस्तुनिर्देशरूपमङ्गलाचरणम्
- ४-११ स्वप्रत्यगात्मविषयकमङ्गलाचरणविषये आक्षेपसमाधानानि
आवर्तः १० – चतुर्थ आक्षेपः
ननु – *१ भवद्गुरुपरम्परागतसगुणेष्टदेवतानमस्कारात्मकमङ्गलं युक्तं कर्तुमिति चेत्॥
*१ - रामकृष्णादि।
Why not a maṅgala to rāma, kr̥ṣṇa etc, who are the saguṇa iṣṭa devatās in your own guru paramparā?
आवर्तः ११ – समाधानम्
उच्यते – यत्स्वरूपपरिज्ञानाय साधकाः चित्तशुद्धये निष्कामकर्माणि, चित्तैकाग्र्यायोपासनानि च यमाद्यष्टाङ्गसहिता आचरन्ति तादृशप्रत्यगेकरसचिन्मात्राखण्डब्रह्मरूपत्वात् स्वस्य मम, कमन्यं नमस्कुर्याम्।
स्वस्वरूपातिरिक्तस्य द्वैतस्याणुमात्रस्याप्यभावात् भेदघटितत्रिपुटीविषयभूतनमस्कारादिव्यवहार एव न संभवतीत्यभिप्रायः॥
sādhakas perform niṣkāma karmas for citta śuddhi, upāsanās for cittaikāgrya, and the aṣṭāṅga yoga starting with yama in order to know this akhaṇḍa brahma, who is verily me. Who else should I do namaskāra to?
When there is no trace of any dvaita that stands apart from my svarūpa, a namaskāra that is based on tripuṭī cannot stand.