ॐ गुरुपरमात्मने नमः

- १-३९ प्रथमतरङ्गः -- अनुबन्धानां सामान्यतो निरूपणम्

- १-३९ ग्रन्थमहिमा

आवर्तः १२ – संस्कृतग्रन्थेषु सत्स्वपि भाषाग्रन्थानां रचनं मन्दानामुपकाराय

वेदान्तसिद्धान्तरूपनीरपूर्णोऽतिगम्भीरोऽयं *२ विचारसागराख्यो ग्रन्थः।

*२ गुरुशिष्ययोः तत्त्वबुभुत्साकथारूपेण वादेन वा, पूर्वपक्षसिद्धान्तचर्चारूपेण वा, जडचेतनपदार्थयोः उपक्रमादिषड्विधतात्पर्यलिङ्गैर्यो निर्णयः स विचारः। तेन पर्यवसन्नोऽर्थः सिद्धान्तः। स एव सागर इव सागरः

कुतः – अनेकशङ्कापङ्कप्रक्षालकसमाधानरूपसलिलपूर्णत्वात्। अनेकाध्यायरूपतरङ्गवत्वात्। कठिनप्रमेयरूपग्राहवत्त्वात्।
शुद्धबोधस्वरूपनिर्णायकसिद्धान्तरूपरत्नानामाकरत्वात्। परकूलप्रापणाय शुद्धबुद्धिरूपनौकावत्वात्। असकृदभ्यासात्मकानुकूलवातेरितत्वात्। अनन्यप्रत्यग्ब्रह्मनिष्ठगुरुरूपनौकादण्डवत्वात्। एतद्ग्रन्थाभ्यासजनितज्ञानगम्यमोक्षरूपतीरवत्वाच्च।

  • The samādhāna-waters clean the doubt-dirt
  • The adhyāyas (chapters) are the waves
  • The difficult teachings are the crocodiles
  • The gems are the teachings of the siddhānta
  • The boat is the pure mind
  • The winds are the repeated study
  • The oars are the guru seated in brahma
  • The far shore is mokṣa resulting from study of this text

गुरुमुखात् तीव्रतरश्रद्धाभक्तिसाधनचतुष्टयपूर्वकमस्य ग्रन्थस्य श्रवणमनननिदिध्यासनजन्यस्वस्वरूपापरोक्षसाक्षात्कारेण अविद्याद्यखिलानर्थनिवृत्त्या केवलाद्वितीयचिन्मात्ररूपो धीरः *३ परमानन्दमानोति।

This text – named the ‘ocean of vicāra’ – is full of the deep waters of the vedānta siddhānta. Along with great śraddhā, bhakti, and sādhana-catuṣṭaya the śravaṇa, manana and nididhyāsana of this text, studied from the guru results in aparokṣa sākṣātkāra. This removes avidyā and all anarthas. The dhīra, who is kevala advitīya cinmātra attains paramānanda.

*३. ‘घी’शब्दस्य बुद्धिरर्थः। ‘र’ इत्यस्य विषयेभ्यः परावृत्य तद्रक्षणमर्थः। तथा च विषयेभ्यो बुद्धिं यो नियच्छति स एव धीरः। “पराञ्चि खानि व्यतृणत् स्वयम्भूस्तस्मात् पराङ् पश्यति नान्तरात्मन्। कश्चिद्धीरः” (क. 2.1.1) इत्यादिश्रुतेः।

ननु – सत्स्वनेकप्राचीनोद्ग्रन्थेषु *४ सूत्रतद्भाष्यवार्तिकादिषु किमित्ययमपूर्वो ग्रन्थोऽधुना विरच्यत इति चेन्न। तेषामत्यन्तप्रौढोत्तमाधिकारिकत्वेन मन्दानामुपकारायास्य साफल्यात्।

*४. सूत्रं
“अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम्।
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः॥”

षड्दर्शनात्मकानेकग्रन्थेषु सत्स्वप्यत्र ‘सूत्र’ शब्देन श्रीकृष्णद्वैपायनप्रणीतं (५५५ सूत्रात्मकं) शारीरकमीमांसाशास्त्रं गृह्यते।

भाष्यं
“सूत्रार्थो वर्ण्यते यत्र पदैः सूत्रानुसारिभिः।
स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः॥”

एवं सत्स्वप्यनेकेषु भाष्येषु भगवत्पादीयमेवात्र भाष्यं योग्यं ग्रहीतुम्।

वार्तिकं
“उक्तानुक्तदुरुक्तानां चिन्ता यत्र प्रवर्तते।
तदेव वार्तिकं प्राहुर्वार्तिकज्ञा महर्षयः॥”

सत्स्वप्येवंजातीयकेष्वनेकेषु वार्तिकेषु श्रीशङ्करभगवत्पादपूज्यशिष्यमण्डनमिश्राख्यश्रीसुरेश्वराचार्यकृतमेवात्र वार्तिकं ग्राह्यम्॥

आदि – आदिपदग्राह्याणि उपनिषद्गीतादीनि।

  • The sūtras are short, pithy and contain the essence of the teachings with universal applicability
  • The bhāṣyas are the explanations of the sūtras in their own words, by adding additional words
  • The vārika contemplates on what is said and unsaid in the bhāṣya