- १२-१३ ग्रन्थमहिमा
आवर्तः १३ – विचारसागरग्रन्थस्य वैशिष्ट्यम्
सत्स्वप्यनेकेषु भाषाग्रन्थेषु पञ्चभाषात्मबोधादिषु विना विचारसागरं स्वात्मविषयकसर्वसंशया न निवर्तेरन्। यतः केचन ग्रन्थकाराः श्रवणमात्रं कृत्वा भाषाग्रन्थं रचयामासुः। ततस्तद्गतविषयाः केचन शास्त्रानुसारिणो न भवन्ति। क्वचित् शास्त्रार्थवैपरीत्यं चोपलभ्यते। अपरे केचन स्वल्पशास्त्राभ्यासमात्रेण भाषाग्रन्थान् रचयामासुः। तत्र वेदान्तार्थस्य समग्रस्यानुक्तत्वात् न तैर्निःसंशयज्ञानमुदेति।
अस्मिन् विचारसागरे तु वेदान्तार्थाः समर्मकाः समग्रतया शास्त्रानुसारेण प्रतिपाद्यन्ते। सर्वत्र शास्त्राविरोधेन चात्मज्ञानोपयोगिविषयाः सप्रपञ्चं निरूप्यन्ते। तस्मादयमेव सर्वेभ्यो वेदान्तग्रन्थेभ्य उत्तमोत्तमः। नास्त्यस्य समं ग्रन्थान्तरम्।
Though there are many granthas in Hindi, such as the paṅcabhāṣā, ātmabodha etc, texts other than the vicāra sāgara do not remvoe all doubts about one’s own self.
A few authors have merely done śravaṇa and then composed works. Some sections don’t follow śāstra, and others are opposed to śāstra. Some others have only studied śāstra partially and then composed works. Since the meaning of vedānta is not fully explained, the jñāna that it gives is not free of saṁśaya.
In this vicāra sāgara, the vedānta is fully explained with all crucial points. It is completely unopposed to śāstra, and all topics for ātmajñāna are explained in detail. Thus, this text is better than all other vedanta granthas. There is no equal to it.