- १-३९ साधनचतुष्टयनिरूपणम्
आवर्तः १४ – अनुबन्धचतुष्टयम्
अनुबन्धचतुष्टयम् – अधिकारिविषयप्रयोजनसंबन्धानामनुबन्ध इति नाम।
“सर्वस्यैव हि शास्त्रस्य कर्मणो वापि कस्यचित्।
यावत्प्रयोजनं नोक्तं तावत् तत्केन गृह्यते॥”
इति वचनात् प्रयोजनादिज्ञानाभावे विवेकिनां ग्रन्थे प्रवृत्त्यनुपपत्तेस्तदङ्गभूतोऽनुबन्धः *१ प्रथमं निरूप्यते।
The anubandha catuṣṭhaya are composed of the (i) adhikārī, (ii) viṣaya, (iii) prayojana and (iv) sambandha. Without knowing these, no one would undertake a study of a śāstra.
*१. स्तम्भचतुष्टयाभावे यथा मण्डपो न तिष्ठति, तद्वद् अनुबन्धचतुष्टयाभावे न कस्यापि ग्रन्थे प्रवृत्तिः सिद्ध्येत्। तस्माद्ग्रन्थादौ तत्र प्रवृत्यर्थमवश्यं ग्रन्थकर्त्रा तच्चतुष्टयं निरूपणीयम्। स्वज्ञानं अनु = स्वविवेकविज्ञानानन्तरमेव मुमुक्षुं ग्रन्थेन बध्नाति = वेदान्तविचारे प्रवर्तयतीत्यनुबन्धः।
Without the four pillars supporting it, a maṇḍapa cannot stand securely. So also, without the four anubandhas, proper pravr̥tti in the study of a grantha does not take place. Thus, at the beginning of a grantha, these four should be properly explained. With knowledge of them, it binds the mumukṣu to the text, i.e. impells them in vedānta vicāra.