- ४६५-४६७ ज्ञानिनो व्यवहारनियमाक्षेपः
आवर्तः ४६७ – तत्र समाधानम्
प्रारब्धकर्मफलभूतानि यावन्ति शरीराणि तावन्त्यपि ज्ञानिनः शरीराणि भवन्त्येव। प्रारब्धभोगयोग्यादधिकं शरीरं न जायेत। तेन ज्ञानमपि सफलमिति यदि कश्चित्समाधानं ब्रूयात् – तन्न युज्यते।
वेदस्यायं सिद्धान्तः – ज्ञानिनः प्राणा लोकान्तरं वाऽस्मिँल्लोके देहान्तरं वा न प्राप्नुवन्ति। अपि तु अत्रैवान्तःकरणमिन्द्रियाणि च *१ संप्रलीयन्ते। प्राणस्य गमनं विना शरीरान्तरं न प्राप्यते। तस्मात् ज्ञानिनः प्रारब्धशेषबलाच्छरीरान्तरं जायेतेति कथनं न संभवति।
*१. “न तस्य प्राणा उत्क्रामन्ति… अत्र ब्रह्म समश्नुते” (बृ. ४.४.६-७) इति श्रुतेः।
इदं त्वत्र समाधानम् – यत्र *२ एकेन कर्मणा अनेकशरीराणि जायन्ते, तत्र चरम एव जन्मनि ज्ञानं जायेत, न तु पूर्वतनशरीरेषु।
*२. ब्रह्महत्यादिकमेकमपि कर्म नरकानुभवानन्तरं श्वसृगालसर्पाद्यनेकजन्महेतुत्वेन स्मृतिपुराणादिप्रसिद्धम्। कृत्तिकाशुद्धपूर्णिमायां स्वामिदर्शने कृते धनादिसम्पद्विशिष्टः सप्तजन्मसु ब्राह्मणो जायत इति च। इत्थमनेकजन्महेतुभूतमेकमेव कर्म प्रारब्धरूपेण फलदानादागामिप्रतिबन्धो भवति। श्रवणादिविचाररूपज्ञानसाधने प्रवृत्तस्यापि पुरुषस्येदृशप्रतिबन्धे सति नैव ज्ञानं जायते। तस्मात् एतत्कर्मफलभूतचरमजन्मन्येव भाविप्रतिबन्धाभावात् ज्ञानमुत्पद्यते। जन्मान्तरानुष्ठितं श्रवणादिकमपि तदा तत्रोपकरोतीति तदपि न निष्फलम्। भरतस्य प्रारब्धं जन्मत्रयस्य हेतुरभूत्। सत्यामपि साधनसामग्र्यां नाभूत्तस्य ज्ञानम्। तृतीये तु जन्मनि विनाप्युपदेशं जन्मान्तरकृतश्रवणादिबलात्समजायत ज्ञानम्।
अनेकशरीरप्रदप्रारब्धस्य तत्र *१ प्रतिबन्धकत्वात्।
*१. बुद्धिमान्द्यविशिष्टविषयासक्तिकुतर्कविपर्ययदुराग्रहाख्यो वर्तमानः प्रतिबन्धः। पुत्रवित्तदारादीष्टवस्तुनाशानन्तरमपि तत्स्मरणात्मको भूतप्रतिबन्धः। ब्रह्मलोकादिलोकान्तरभोगेच्छा, अथवा भाविजन्महेतुभूतप्रारब्धकर्मशेष आगामी प्रतिबन्धः। तथा चोक्तं पञ्चदश्याम् (९.३२-४६) –
विचार्याप्यापरोक्ष्येण ब्रह्मात्मानं न वेत्ति चेत्।
आपरोक्ष्यावसानत्वाद्भूयो भूयो विचारयेत्॥
विचारयन्नामरणान्नैवात्मानं लभेत चेत्।
जन्मान्तरे लभेतैव प्रतिबन्धक्षये सति॥
इहामुत्र वा विद्येत्येवं सूत्रकृतोदितम्।
शृण्वन्तोऽप्यत्र बहवो यन्न विद्युरिति श्रुतिः॥
गर्भ एव शयानः सन् वामदेवोऽवबुद्धवान्।
पूर्वाभ्यस्तविचारेण यद्वदध्ययनादिषु॥
बहुवारमधीतेऽपि सदा नायाति चेत्पुनः।
दिनान्तरेऽनधीत्यैव पूर्वाधीतं स्मरेत्पुमान्॥
कालेन परिपच्यन्ते कृषिगर्भादयो यथा।
तद्वदात्मविचारोऽपि शनैः कालेन पच्यते॥
पुनः पुनर्विचारेऽपि त्रिविधप्रतिबन्धतः।
न वेत्ति तत्त्वमित्येतत् वार्तिके सम्यगीरितम्॥
कुतस्तज्ज्ञानमिति चेत् तद्धि बन्धपरिक्षयात्।
असावपि च भूतो वा भावी वा वर्ततेऽथवा॥
अधीतवेदवेदार्थोऽप्यत एव न मुच्यते।
हिरण्यनिधिदृष्टान्तादिदमेव हि दर्शितम्॥
अतीतेनापि महिषीस्नेहेन प्रतिबन्धतः।
भिक्षुस्तत्त्वं न वेदेति गाथा लोके प्रगीयते॥
अनुसृत्य गुरुः स्नेहं महिष्यां तत्त्वमुक्तवान्।
ततो यथावद्वेदैष प्रतिबन्धस्य सङ्क्षयात्॥
प्रतिबन्धो वर्तमानो विषयासक्तिलक्षणः।
प्रज्ञामान्द्यं कुतर्कश्च विपर्ययदुराग्रहः॥
शमाद्यैः श्रवणाद्यैश्च तत्र तत्रोचितैः क्षयम्।
नीतेऽस्मिन् प्रतिबन्धेऽतः स्वस्य ब्रह्मत्वमश्नुते॥
आगामिप्रतिबन्धश्च वामदेवे समीरितः।
एकेन जन्मना क्षीणो भरतस्य त्रिजन्मभिः॥
योगभ्रष्टस्य गीतायामतीते बहुजन्मनि।
प्रतिबन्धक्षयः प्रोक्तो न विचारोऽप्यनर्थकः॥
यथा (१) विषयासक्तिः, (२) बुद्धिमान्द्यम्, (३) भेदवादिद्वैतशास्त्रवचनविश्वासश्चेत्यादिर्ज्ञानप्रतिबन्धः तथा *१ विलक्षणप्रारब्धम् अपि ज्ञानप्रतिबन्धकमेव। प्रतिबन्धकसद्भावदशायां क्रियमाणं ज्ञानसाधनीभूतं श्रवणमननादिकं सर्वं प्रतिबन्धकनिवृत्त्यनन्तरमेव चिरकालप्रतिबद्धमपि प्रथमजन्मकृतमेव सत् शरीरान्तरे ज्ञानमुत्पादयति तद्यथा *२ वामदेवस्य किलर्षेः पूर्वजन्मनि कृतश्रवणादेरपि प्रारब्धकर्मफलभूतेनैकेन शरीरेण शेषभूतेन बलवता प्रतिबन्धान्न ज्ञानमुद्भूतं श्रवणाद्यनुष्ठानदशायामेव। शरीरपातेन शरीरान्तरप्राप्तिसमये पूर्वजन्मकृतमेव श्रवणादिकं तस्य गर्भ एव ज्ञानं जनयति स्म। तस्माज्ज्ञानानन्तरं शरीरान्तरसंबन्धो नैव स्यात्। ज्ञानिनो वर्तमानशरीरचेष्टा तु प्रारब्धकर्माधीनतया जायते। तत्रापि शरीरनिर्वाहकत्वेन यावदाक्षिप्तं कर्म तावदेव स्यात्। रागजन्याधिकयथेष्टचेष्टादिकं नैव स्यात्। तस्मात् सर्वप्रवृत्तिशून्य एव ज्ञानी स्यात्।
*१. जन्मान्तरहेतुभूतः प्रारब्धशेषः।
*२. अत्र वामदेवशब्देन ऋषभदेवपुत्रो जडभरतोऽपि गृह्यते। तस्य जन्मत्रयहेतुभूतप्रारब्धशेषोऽवर्तत। ततः साधनसम्पत्तौ सत्यामपि नाभूज्ज्ञानम्। तृतीये जन्मन्यन्तरेणैवोपदेशं प्रागनुष्ठितविचारबलादेवापरोक्षज्ञानं सम्बभूव।